________________
२८६
काव्यमाला |
[ नापि तथानालपन्ती हृदयं दुनोति मानिन्यधिकम् । यथा दूरविजृम्भितगुरुकरोपमध्यस्थ भणितैः ॥ ]
न तथा नालपन्ती मानिन्यधिकं दुनोति हृदयं नः । दूरविजृम्भितगुरुकप्रकोपमध्यस्थभाषितैर्हि यथा ॥ ६४ ॥
अनालपन्ती मानिनी हृदयं तथा न दुनोति, यथा दूरं विजृम्भितो गुरुकः प्रकोपो येषु तादृशैः मध्यस्थ भणितैरुदासीनवचनैर्दुनोति । मौनापेक्षया तटस्थपुरुषवत्प्रेमशून्यैर्वचनैरधिकं दुःखं भवतीति भावः । ' कलहान्तरितां सखीं शिक्षयन्ती काचिदाह' इति गङ्गाधरः । उदासीनवन्निष्ठुरं न वाच्यः प्रियतम इति विषये मातृगुप्ताचार्याणामुदाहृतं च तेन पद्यम् ' निष्ठुराणि न वक्तव्यो नातिक्रोधं च दर्शयेत् । न वाक्यैर्वाच्य संमिश्रैरुपालभ्यो मनोरमः ॥' इति । स्फुटमियं मानिनीपदाङ्किता गाथा कलहान्तरितार्या क्लेशतोऽन्वेति । अत एव 'यत्नापनेयमाना धीरा यथेति प्रसङ्गे, निर्धारित विशेषप्रकारो विशेषवान् प्रेमा यथा' इत्यत्र चोदाहृता सेयं गाथा स. कण्ठाभरणे ( ५ परि. ) । वर्षासु दुःखविप्रकर्षात्प्रियतमासमाप्तिमाशङ्कमानं पान्थमाश्वासयन्मार्गमिलितः कश्चित्कारुणिक आह
गन्धं अग्घान्त पककलम्बाएँ वाहभरिअच्छ । आससु पहिअजुआणअ वरिणिमुहं मा ण पेच्छिहिसि ॥ ६५ ॥
[ गन्धमाजिघ्रन्पक्ककदम्बानां बाष्पभृताक्ष ।
आश्वसिहि पथिकयुवन् गृहिणीमुखं मा न प्रेक्षिष्यसे ॥ ] परिपक्ककदम्वाना माजिव्रन्गन्धमश्रुभरिताक्ष ।
आश्वसिहि मा न गृहिणीमुखं निरीक्षिष्यसे ऽयि पथिकयुवन् ६५ अयि पथिकयुवन् ! आश्वसिहि । गृहिणीमुखं न निरीक्षिष्यसे इति मा, किंतु अवश्यं निरीक्षिष्यसे इत्यर्थः । पक्ककदम्बानामित्यनेन साम्प्रतं प्रावृषः पूर्णः प्रकर्षः, अत एव तदारम्भादेव दुःखमनुभवन्ती प्रतीक्षणपरा परासुर्भवेत्' इत्यनुमानं सूच्यते । आजिघ्रन्निति शत्रा ईषघ्राणस्य साध्यतायामेव उत्कण्ठोदयेन गृहिणी विनाशानुमानेन च बाष्पोद्गमो जात इत्यतिशयोक्तिः । युवन्नित्यनेन - 'यौवनसुलभया उत्कण्ठया कुण्ठितत्वादेवंभयाकुलोसि, किन्त्वनुभविनः प्रौढस्य ममाश्वासने विश्वसिहि' इति वक्तुः प्रौढिः सूच्यते । गर्जितश्रवणेनोद्दीप्तविरहतया प्रियाविनाशमाशङ्कमानः पथिकः पयोदमाह–
गज महं चिअ उवरिं सवत्थामेण लोहहिअअस्स । जलहर लम्बालइअं मारे मारेहिसि वराइम् || ६६ ॥
[ गर्ज ममैवोपरि सर्वस्थाम्ना लोहहृदयस्य । जलधर लम्बालकिकां मा रे मारयिष्यसि वराकीम् ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org