________________
२८५
६ शतकम् ] संस्कृतगाथासप्तशती।
राजन्ति कुमुददलनिश्चलस्थिता मत्तमधुकरमिकायाः।
ग्रन्थय इव तिमिरस्य हि शशिकरनिःशेषनाशितस्येमाः॥६१॥ मधुकरखभावान्मधुपानेन मत्ताः अत एव मदजनितस्तम्भेन निश्चलं स्थिताः । शशिकिरणैनिःशेषं समापितस्य तिमिरस्य कुत्रकुत्रचित्पतिता इमा ग्रन्थय इव। निश्चलस्थित्या अचेतनाभिम्रन्थिभिः साम्यम् । 'कुमुदसरस्तीरलतागृहे चन्द्रोदयपर्यन्तमहं स्थितः, त्वं तु न गतेति कुलटां श्रावयन्कश्चिदाह' इति गङ्गाधरः।
शालिक्षेत्रे रममाणा शालिगोपी क्षेत्रे शुकपतनशङ्कां सूचयन्यपि सुरतसत्वरं जार• मन्यमनस्कं कर्तुमाह
उअह तरुकोडराओ णिकन्तं पुंसुवाण रिञ्छोलिम् । सरिए जरिओ व दुमो पित्तं च सलोहिअं वमइ ॥ ६२॥ [पश्यत तरुकोटरानिष्क्रान्तां पुंशुकानां पतिम् ।
शरद ज्वरित इव द्रुमः पित्तमिव सलोहितं वमति ॥] पति तरुकोटरतो निष्क्रान्तां पश्य पुंशुकानां हि ।
शरदि ठुमो ज्वरित इव सलोहितं पित्तमिव वमति ॥ ६२॥ . पित्तं हरितवर्ण तस्मिन् रक्तवर्ण शोणितमपि मिलितम् , तथैव हरितवर्णाः शुकास्तेषां चञ्चवो गलकण्ठिकाश्चारुणा इति द्वयोः साम्यम् । अत एव पुंशुकानां (नरशुकानाम्) पतिमित्युक्तम् ।
रममाणस्योपपतेर्भयं त्वरां चापनयन्ती दुर्दिनाभिसारिका दुर्दिनं बहुकालावस्थायीति तल्लिङ्गान्याह
धाराधुवन्तमुहा लम्बिअवक्खा णिउश्चिअग्गीवा । वइवेढनेसु काआ मूलाहिण्णा व्व दीसन्ति ॥ ६३ ॥ [धाराधाव्यमानमुखा लम्बितपक्षा निकुञ्चितग्रीवाः ।
वृतिवेष्टनेषु काकाः शूलाभिन्ना इव दृश्यन्ते ॥] धाराविधौतवदना लम्बितपक्षा निकुञ्चितग्रीवाः ।
वृतिवेष्टनेषु काकाः शूलाभिन्ना इव प्रदृश्यन्ते ॥६३॥ ऊर्ध्वकृतमुखत्वात् जलधाराभिर्धाव्यमानं मुखं येषां ते । पक्षौ प्रसार्य ग्रीवां कुब्जतयावकुच्य, क्षेत्राणां कण्टकवृतिषु काकास्तथा स्थिताः सन्ति यथा ऊर्ध्वमुखास्ते उन्नामितशूलाग्राकारचञ्चुत्वात् शूलेन आ ( समन्तात् ) भिन्ना इव दृश्यन्ते । एवंरूपेण काकानां निर्भयमवस्थित्या दुर्दिनमपि चिरमवस्थायीति जारं प्रत्यभिव्यज्यते । मानिनी नायिका युक्त्या स्वसंभाषणाभिमुखीं कर्तुं नायकोऽन्तरङ्गसुहृदमाह
ण वि तह अणालवन्ती हिअअं दूमेइ माणिणी अहिअम् । जह दूरविअम्भिअगरुअरोसमज्झत्थभणिएहिं ।। ६४ ॥
Vain Education International
For Private & Personal Use Only
www.jainelibrary.org