________________
२८४
काव्यमाला। .
वनशोभादर्शनेनोत्कण्ठितचित्तायाः प्रियसख्या भाविनी विरहवेदनां संसूच्य प्रावृषि प्रवासं चिकीर्षतो नायकस्य गमनाध्यवसायं निवारयन्ती नायिकासखी आह
अहिणवपाउसरसिएसु साँहइ साआइएसु दिअहेसु । रहसपसारिअगीवाण णचि मोरवुन्दाणम् ॥५९ ॥ [अभिनवप्रावृड्रसितेषु शोभते श्यामायितेषु दिवसेषु ।
रभसप्रसारितग्रीवाणां नृत्यं मयूरवृन्दानाम् ॥] श्यामायितेष्वभिनवप्रावृड्रसितेषु लसति दिवसेषु ।
नृत्यं रभसोन्नामितशिरोधराणां मयूरवृन्दानाम् ॥ ५९॥ अभिनवानि प्रावृषो रसितानि (मेघगर्जितानि ) येषु तेषु । जलधरस्थगितदिनकरतया श्यामायितेषु श्यामा रजनी तत्सदृशेषु दिवसेषु मयूरवृन्दानां नृत्यं शोभते । विरहिणां कृते रजनी किलानिर्वचनीयदुःखदायिनी, इह तु दिवसा अपि रजनीयन्ते । अत एवंविधे घनरसमये समये न गन्तव्यमिति ध्वन्यते । नवानि प्रावृड्रसितान्याकर्ण्य रभसेन मेघावलोकनार्थ मयूरैीवा उन्नाम्यन्ते, अत एव प्रसारितपदापेक्षया उन्नामितेति सम्यक् । दिवैव संकेतस्थानस्याभिसारयोग्यतां सूचयन्त्या दूत्या इयमुक्तिरिति कश्चित् । 'वनमयूरलसितं संकेतितलतागृहमहं गता त्वं तु न गत इति जारं श्रावयन्ती कुलटा वर्षाप्रशंसामाह' इति गङ्गाधरावतरणम् । महिषशालायां सुरतासक्ता काचित्कामिनो मनोविनोदाय दोषमपि गुणीकुर्वत्याह
महिसक्खन्धविलग्गं घोलइ सिङ्गाहअं सिमिसिमन्तम् । आहअवीणाझंकारसद्दमुहलं मसअवुन्दम् ॥ ६०॥
[महिषस्कन्धविलग्नं घूर्णते शृङ्गाहतं सिमसिमायमानम् । __ आहतवीणाझंकारशब्दमुखरं मशकवृन्दम् ॥] महिषस्कन्धविलग्नं शृङ्गहतं सिमसिमायितं भ्रमति ।
आहतवीणाझङ्कृतिशब्दमुखरितं मशकवृन्दम् ॥ ६०॥ सिमसिमेत्यनुकरणम् । सिमसिमेति शब्दं कुर्वदित्यर्थः । कोणेन आहताया वीणाया यो झंकारशब्दस्तद्वन्मुखरम् । पूर्व शृङ्गे स्थितिः, पश्चाच्छ्रङ्गताडनेन सिमसिमशब्दं कुर्वतां भ्रमणं मशकानां खभावः । अनेन खभावोक्त्यलंकारेण 'वीणाझङ्कारेणेव प्रमोदितमनास्त्वं सुचिरं रमख' इति नायकं प्रति चिररमणाभिलाषो व्यज्यते । निष्कुटकुमुदिनीशोभावर्णनेन प्रियतमाया मनः प्रमोदयन् कश्चिदाह
रेहन्ति कुमुअदलणिचलट्ठिआ मत्तमहुअरणिहाआ । ससिअरणीसेसपणासिअस्स गण्ठि व तिमिरस्स ॥ ६१॥ [राजन्ते कुमुददलनिश्चलस्थिता मत्तमधुकरनिकायाः। शशिकरनिःशेषप्रणाशितस्य ग्रन्थय इव तिमिरस्य ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org