________________
६ शतकम् ]
संस्कृतगाथासप्तशती।
ततश्च सर्वदा दुष्टदमनचिन्तायां लग्नोऽतितीक्ष्णश्चास्य ग्रामस्य भोक्ता प्रभुरस्ति, तथापि त्वत्प्रसादादयं ग्रामस्थः कुलटाजनो नोद्वेगं प्राप्नोतीत्याशयः। सपत्न्या दुश्चरितं पतिं प्रति सापदेशं सूचयन्ती सपत्नी सोपालम्भमाह
सुप्पं डड्डू चणआ ण भजिआ सो जुआ अइकन्तो। अत्ता वि घरे कुविआ भूआण व वाइओ वंसो ॥ ५७॥ [शूर्प दग्धं चणका न भृष्टाः स युवातिक्रान्तः ।
श्वश्रूरपि गृहे कुपिता भूतानामिव वादितो वंशः ॥] शूर्प दग्धं चणका न भर्जिताः स च युवातिगतः। श्वश्रूहेपि कुपिता भूतानामिव हि वादितो वंशः ॥ ५७ ॥ चणकान् भजयन्त्या अनया अनवधानेन शूर्प दग्धम् , परं चणका न भर्जिताः । यं युवानं द्रष्टुं चणकभर्जनकार्य त्यक्त्वा इयं बहिर्निर्गता सोऽप्यतिक्रान्तः । भूतानां बधिराणामिवाग्रे वंशः (वेणुः ) वादितः । बधिराणामग्रे वंशीवादन मिव गृहकार्यहानि संपादयन्त्या अप्यस्याः सर्वः प्रयासो विफलीभूत इत्याशयः । गृहवस्तुहानि परपुरुषपर्यालोचनप्रयासं च गृहाधिष्ठात्री त्वन्मातापि ज्ञातवती, अत एव कुपितास्ति । ततः पश्यास्या दुश्चरितमिति पतिं प्रति युक्त्या सूचना ।
सलिलनिमग्नैः प्रियतमैरिमा निगूढमुपगूढा इत्यात्मनः प्रच्छन्नपरिज्ञानपाटवं प्रख्यापयन्नागरिकः सहचरं प्रति कामिनीनां जलकेलिमुपवर्णयति
पिसुणेन्ति कामिणीणं जललुक्कपिआवऊहणसुहेल्लिम् । कण्डइअकवोलुप्फुल्लणिञ्चलच्छीइँ वअणाई ॥५८ ॥ [पिशुनयन्ति कामिनीनां जलनिलीनप्रियावगूहनसुखकेलिम् ।
कण्ट कितकपोलोत्फुल्लनिश्चलाक्षीणि वदनानि ॥] शंसन्ति कामिनीनामम्बुनिलीनप्रियाङ्गसङ्गसुखम् ।
पुलकितकपोलसंफुल्लनिश्चलाक्षाणि वदनानि ॥ ५८॥ प्रियागस्पर्शेन पुलकिती कपोलौ येषु तानि । तथा हर्षविशेषादुत्फुल्ले ( विकसिते) स्तम्भाख्येन सात्त्विकभावेन निश्चले च अक्षिणी येषु तादृशानि कामिनीनां वदनानि, अम्बुनि निलीनस्य प्रियस्याङ्गसङ्गेन अवगृहनेन यत्सुखं तत्सूचयन्ति । जलनिलीनप्रियपरिरम्भणेन अङ्कुरितकामतया कामिनीनामिति व्यपदेशः। 'निद्भुतमप्यर्थ विदग्धा बुध्यन्ते इति बोधयन्नागरिकः सहचरमाह' इति गङ्गाधरावतरणम् । 'निश्चलाक्षीणि' इति पाठस्तु कदाचन लेखकप्रमाद एव भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org