________________
२८२
काव्यमाला।
सद्यःस्नाता श्यामाजी कामयमानः कश्चित् शृण्वन्त्यां तस्यां स्वसहचरमाह
पत्तणिअम्वप्फंसा हाणुत्तिण्णाएँ सामलङ्गीए । जलबिन्दुएहिँ चिहुरा रुअन्ति बन्धस्स व भएण ॥ ५५ ॥ [प्राप्तनितम्बस्पर्शाः स्नानोत्तीर्णायाः श्यामलाझ्याः ।
जलबिन्दुकैश्चिकुरा रुदन्ति बन्धस्येव भयेन ॥] प्राप्तनितम्बस्पर्शाः श्यामाझ्याः स्नानसक्तायाः।
बन्धस्येव भयेन हि रुदन्ति जलविन्दुभिश्चिकुराः ॥ ५५ ॥ स्नानसमये पृष्ठे लम्बमानतया सुन्दरीनिबिडनितम्बस्पर्शसुखमवाप्तवन्तः कुन्तलाः स्नानोत्तरं धम्मिलबन्धनेन तत्सुखविलोपशङ्कया प्रस्रवत्स्नानसलिलबिन्दुच्छलेन संप्रति रुदन्तीवेत्यर्थः । तथा च-नैषां बन्धनं भवेत्तथेमे वाञ्छन्ति । अर्थात् मयि सुरतासका सती एतेषां पुनरपि विमुक्ततासुखं संपादयेति निगूढाभिप्रायो व्यज्यते।
ग्रामनिकटावस्थितवटान्तिके सुघटान्य भिसारसुखानि विटाय सूचयन्ती रतिरसलम्पटा कुलटा वटानुवर्णनमाह
गामङ्गणणिअडिअकलवक्ख वड तुज्झ दूरमणुलग्गो । तित्तिल्लपडिक्खकभोइओ वि गामो ण उविग्गो ॥५६॥ [ग्रामाङ्गणनिगडितकृष्णपक्ष वट तव दूरमनुलग्नः ।
दौःसाधिकप्रतीक्षकभोगिकोऽपि ग्रामो नोद्विग्नः ॥] अनुलग्नस्ते ग्रामाङ्गणनिगडितकृष्णपक्ष वट दूरम् ।
दो साधिकप्रतीक्षकभोग्यपि न ग्राम उद्विग्नः ॥५६॥ ग्रामाङ्गणे निगडितः बद्धः [स्ववशे कृत्वा सर्वदा स्थापितः] कृष्णपक्षः [तत्कार्यभूतः अन्धकारः] येन तत्संबुद्धौ । एतादृश हे वट ! तव दूरमनुलग्नः दूरदूरपर्यन्तं त्वच्छायामाश्रितः। दौःसाधिको द्वारपालः प्रतीक्षकः [ग्रामपतिसविधे नयनाय मार्गावेक्षकः ] यस्य तादृशो भोगी भोगासक्तः कामुकजनो यस्मिन्नेतादृशोपि ग्रामो नोद्विग्नः । अनुपलक्षिताभिसारतया राजभयरहितत्वान्न भीति प्राप्त इत्यर्थः । अयं भावः-हे वट ! तव निबिडतमच्छायायां सर्वदा कृष्णपक्षस्येव अन्धकारो भवति । ततश्च त्वदाश्रये अभिसाररताः कामिनो निर्भयं भोगान् भुञ्जते । ग्रामाधिपते रक्षकपुरुषास्तान् निग्रहीतुं प्रतीक्षमाणा एव तिष्ठन्ति परं त्वच्छायान्धकारे न तान् लक्षयितुं प्रभवन्ति । अत एव त्वदनुलग्नोयं ग्रामो नोद्विजते इति । दौःसाधिकस्य प्रतीक्षकाः [इदानी द्वारपाल आयाति, अयमायात इति भयचकितं द्वारपालमार्गावेक्षकाः] भोगिनो यस्मिन्नित्यप्यर्थः संभवति । 'तित्तिल्लो' दौःसाधिकः । 'दौःसाधिको द्वारपालः' इति त्रिकाण्डशेषः । 'तन्तिल्लपडिखरभोइओ वि' इति पाठे तु 'चिन्तापरप्रतिखरभोगिकोपि' इति च्छाया । चिन्तायुक्तः प्रतिखरोऽसहनः भोगी ग्रामभोक्ता अधिकारी यस्य ईदृशो ग्राम इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org