________________
६ शतकम् ]
संस्कृतगाथासप्तशती।
२८१
[पञ्जरशारी मातुलानि न नयसि किमत्र रतिगृहात् ।
विस्रम्भजल्पितान्येषा लोकानां प्रकटयति ॥] पारशारी मातुलि नापनयसि किं नु रतिगृहादस्मात् ।
विस्रम्भजल्पितानि प्रकटयतीयं हि लोकानाम् ॥५२॥ पञ्जरशारी पञ्जरबद्धां शारिकाम् । किमिति नापसारयसि । विस्रम्भजल्पितानि रतिसमयोदितानि प्रेमवचनानि । लोकानां लोकेभ्यः । अथवा लोकानां विस्रम्भजल्पितानि सेयं प्रकटयतीति निभृतं वस्य प्रियतमस्य च वचनानां सूचना दत्ता ।
दन्तधावनाद्यर्थ संकेतितस्य करञ्जनिकुञ्जस्य पल्लवपुञ्जभञ्जकं ग्रामे भिक्षामटन्तं कञ्चन धार्मिकं पल्लवभङ्गाद्वारणाय भीषयन्ती काचित्कुलटा आह
एदहमेत्ते गामे ण पडइ भिक्ख त्ति कीस मं भणसि । धम्मिअ करञ्जभञ्जअ जं जीअसि तं पि दे बहुअम् ॥५३॥ [एतावन्माने ग्रामे न पतति भिक्षेति किमिति मां भणसि ।
धार्मिक करञ्जभञ्जक यजीवसि तदपि ते बहुकम् ॥] ग्रामेपीयन्मात्रे न पतति भिक्षेति किमिति मां भणसि ।
धार्मिक करजभञ्जक यजीवसि तदपि ते बहुकम् ॥ ५३॥ करञ्जभञ्जनागत धार्मिक ! इयन्मात्रे ग्रामेऽपि भिक्षा न पतति न मिलति इति किं भणसि । एवंस्थितावपि भैक्ष्यभोजनेन यज्जीवनयात्रां निर्वहसि तदपि बहु गणयेति वाच्योऽर्थः । करजभञ्जनापराधे दृष्टेपि यत्त्वं प्राणैर्न वियुक्तोसि, तत्ते बहुभाग्यमिति व्यङ्ग्योऽर्थः । तथा च-यदि जीवितुं कामयसे तर्हि करञ्जकुञ्जस्य पल्लवपुञ्जभञ्जनाद्विरमेति तं प्रति सूच्यते। श्लेषचातुर्येणानुरागं सूचयन्ती काचित्कृतगुडवेतनमिक्षुयन्त्रवाहकमाह
जन्तिअ गुलं विमग्गसि ण अ मे इच्छाइ वाहसे जन्तम् । अणरसिअ किं ण आणसि ण रसेण विणा गुलो होइ ॥५४॥
[यान्त्रिक गुडं विमार्गयसे न च ममेच्छया वाहयसि यन्त्रम् । ___ अरसिक किं न जानासि न रसेन विना गुडो भवति ॥] यान्त्रिक गुडं विमार्गसि न वाहयसि यन्त्रमिच्छया च मम ।।
अरसिक जानासि न किं न रसेन विना गुडो भवति ॥ ५४॥ यान्त्रिक यन्त्रकर्मकारक ! वेतनत्वेन नियमितं गुडं विमार्गसि अन्विष्यसि वाञ्छसीति यावत् । इक्षुपीडनार्थं कृतं यन्त्रं (ची ) ममेच्छानुसारं च न चालयसि । पक्षान्तरे सुरतसाधनं यत्रम् । रसः इक्षुद्रवः, अनुरागश्च । तथा च-हे अरसिक इक्षुद्रवविधानानभिज्ञ ! किं न जानासि यत् रसेन इक्षुद्रवेण विना गुडो न भवति नोत्पद्यते । पक्षान्तरे च-हे अरसिक ! अनुरागेण विना गुडो न भवति न प्राप्यते इत्यर्थः। मय्यनुरक्तो यावन्ममेच्छानुसारं रतनिरतो न भविष्यसि तावन्न ते गुडवेतनं दीयेतेति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org