________________
२८०
काव्यमाला ।
वोडो दुष्टश्छिन्नकर्णों वा । 'बुड्ढसुणओ' इति पाठे वृद्धशुनक इत्यर्थः । यः श्वा रात्रौ गृहरक्षामकरोत्स विपन्न इति तात्पर्यम् । मत्ता उन्मादरोगिणी। पतिपदेन-केवलं रक्षक एव सः, न मे उपभोक्ता परं सोपि अद्य अन्यस्थः अन्यदेशस्थः । महिषेण कार्पासी कासकृषिर्भमा इति तस्य (पत्युः) कः कथयतु ? नान्यो गृहे पुरुष इति । ततः स्वच्छन्दमिहानन्दोनुभूयतामिति नायकं प्रति द्योत्यते।। __ मधुरतरेणोपायेन मानिन्या मानमपनयतः कस्यचिद्विदग्धस्य रहस्यं प्रत्यक्ष प्रदर्श यन्नागरिकः सहचरमाह
सकअग्गहरहसुत्ताणिआणणा पिअइ पिअमुहविइण्णम् । थोअं थोअं रोसोसहं व उअ माणिणी मइरम् ॥ ५० ॥ [सकचनहरभसोत्तानितानना पिबति प्रियमुखवितीर्णाम् ।
स्तोकं स्तोकं रोषौषधमिव पश्य मानिनी मदिराम् ॥] प्रियमुखदत्तां सकचग्रहरभसोत्तानितानना पिबति ।
स्तोकं स्तोकं रोषौषधमिव मदिरां नु मानिनी, पश्य ॥ ५० ॥ प्रियेण सकचग्रहं रभसेन उत्तानितम् (ऊर्वीकृतम्) आननं यस्याः सा मानिनी प्रियेण खमुखेन दत्तां मदिरां रोषनिवारकमौषधमिव स्वोकं स्तोकम् ईषदीषत्पिबति इति पश्य । कटुतिकास्वादमौषधं यथा खल्पं स्वल्पं पीयते तथा मानवशादत्यनुनयेन किञ्चित्किञ्चित्पिबतीति भावः ।
जनसंचारवञ्चितेस्मिन् ग्रीष्ममध्याह्ने नायकमभिसरेति सूचयन्ती दूती निदाघतापस्य दुःसहतां वर्णयति
गिरसोत्तो त्ति भुअंगं महिसो जीहइ लिहइ संतत्तो। महिसस्स कह्नवत्थरझरो त्ति सप्पो पिअइ लालम् ॥५१॥ [गिरिस्रोत इति भुजंग महिषो जिह्वया लेढि संतप्तः ।
महिषस्य कृष्णप्रस्तरझर इति सर्पः पिबति लालाम् ॥1 गिरिनिर्झर इति भुजगं संतप्तो लेढि जिह्वया महिषः।
कृष्णप्रस्तरझर इति सौ महिषस्य पिबति किल लालाम् ॥५१॥ कृष्णप्रस्तरस्य झरो निःस्यन्दः । कृष्णे महिषे कृष्णपाषाणभ्रान्तिः । 'नास्तित्त्व. विचारक्षमो भवतीति मध्याह्नवर्णनच्छलेन प्रदर्शयन्नागरिकः सहचरमाह' इति गङ्गाधरावतरणम् ।
शारिकया लोकानां सविधे रहस्याख्यानतो विलक्षीकृता कापि कुलवधूरन्तरङ्गा मातुलानीमाह
पञ्जरसारि अत्ता ण णेसि किं एत्थ रइहराहिन्तो । वीसम्भजम्पिआई एसा लोआण पअडेइ ॥ ५२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org