________________
६ शतकम् ]
संस्कृतगाथा सप्तशती ।
विविधविला सैरालिङ्गनचुम्बनादिभिरुपलक्षितम् । करणैर्विपरीतोत्तानकतिर्यगुत्थितकाद्यासनबन्धैः कामशास्त्रकथितैः शोभितम् । तरुणी च तरुणश्च तरुणौ तयोः सुरतं दृष्ट्वा । पुमानस्त्रियेत्येकशेषः । गतमपि तैलं न लक्षयतीत्यनेन - सुरतोत्सवे भूयान्विलम्बो जात इति व्यज्यते । दीपोपीत्यपिपदेन अचेतनो दीपोपि यत्र स्पृहयालुरिव तदेकतानो भवति, तत्र मादृशो भुक्तभोगो जनः कथं कौतुकाद्विरमेदत एव तद्गतचित्ततयः विलम्बोऽभवदिति भावः ।
उद्भटसुरतरसिकां कामपि कामिनीमुत्कण्ठयितुं सुरतकाले पूर्वानुभूतां कामिनः कामशास्त्रकुशलतामन्यापदेशेन काचिदाह
पुणरुचकरप्फालणउहअतडुल्लिहणवडूणसआई । जूहाहिवस्स माए पुणो वि जह णम्मआ सहइ ॥ ४८ ॥ [ पुनरुक्त करास्फालनोभयतटोल्लिखनपीडनशतानि । यूथाधिपस्य मातः पुनरपि यदि नर्मदा सहते ॥ ] पुनरुक्त करास्फालनतटद्वयोलिखनपीडनशतानि । यूथाधिपस्य मातः पुनरपि यदि नर्मदा सहते ॥ ४८ ॥
पुनरुक्तं पुनः पुनर्यत्करेण गुण्डादण्डेन हस्तेन चास्फालनं जलादौ पृष्ठादौ च । तद्वयस्य कूलद्वयस्य नितम्बद्वयस्य च दन्तद्वयेनोत्खननं नखैर्विलेखनं च । पीडनं जलपूरस्यावरोधनं निर्भरालिङ्गनं च एतदादीनां शतानि । यूथाधिपस्य गजपुङ्गवस्य गोष्ठीनायकस्य च, अर्थात्तत्कृतानि करास्फालनादीनि । नर्मदा नदी, नर्म सुरतसुखं ददातीति योगात्कामकलानुकूला नायिका च । यदि पुनरपि सहते, तदा तान्युपस्थितानीतिः शेषः । आश्चर्यसूचनार्थं मातरिति संबोधनं लोके प्रसिद्धम् । अथवा - 'कान्तसमीपं गच्छ' इति वदन्तीं सखीं प्रति नायिकायाः सेयमुक्तिः । सुरतदुर्मदस्य तस्य स्तनतटनखक्षतो रस्ताडननिर्भरालिङ्गनादीनि यदि सहेय तर्हि पुनरपि गच्छेयमिति साकूतं तस्या उत्तरमिति भावः । उल्लिखनमिति 'गाङ्कुटादिभ्य' इति सूत्रे कुटस्य आदिः कुटादिरिति समासेन लिखधातोरपि संग्रहाद् गुणनिषेधेन ।
w
पूर्वसंकेतितं कार्पासी क्षेत्रमगत्वा संप्रति गृह एव स्वच्छन्दमागन्तव्यमिति जारं सूचयन्ती स्वयंदूतिका सोद्वेगमाह
वोडणओ विअण्णो अत्ता मत्ता पई वि अण्णत्थो । फलिहं व मोडिअं महिसएण को तस्स साहेउ ॥ ४९ ॥
[ दुष्टनको विपन्नः श्वश्रूत्ता पतिरप्यन्यस्थः । कार्पास्यपि भग्ना महिषकेण कस्तस्य कथयतु ॥ ] दुष्टनको विपन्नः श्वश्रूत्ता पतिः किलान्यस्थः । कार्पास्यपि परिभग्ना महिषेण हि वदतु कस्तस्य ॥ ४९ ॥
Jain Education International
२७९
For Private & Personal Use Only
www.jainelibrary.org