________________
२७८
काव्यमाला |
ग्रामतरुण्यो हृदयं हरन्ति धनकुचभरा विदग्धानाम् । मदने कुसुम्भरञ्जितकञ्चुलिका मात्रमण्डनाः सपदि ॥ ४५ ॥
घनकुचभराः निबिडस्तनभारवत्यः । प्राकृते पूर्वनिपातनियमाभावात् 'कशुकमात्राभरणाः' इत्यस्य स्थाने ‘कञ्चुकाभरणमात्रा:' इति प्रयुक्तम् । विदग्धानामित्यनेन - मार्मिका एव सुन्दरीणां लावण्यपरीक्षकास्तदितरे तु गतानुगतिका एवेति व्यज्यते । कञ्जलिका - मात्रेत्यनेन लावण्ये न मण्डनापेक्षेति सूच्यते । हृदयं हरन्तीत्यनेन - रत्नाभूषणादिभिनैत्रमात्रमाहियते न तत्त्वज्ञानां मानसमिति द्योत्यते । मदनोत्सवे एतादृश्यो ग्रामतरुण्योपि हृदयहारिण्यो भवन्ति किं पुनरलङ्कृताः पौरसुन्दर्य इति तदुत्सवस्य निसर्गतो मादकता ध्वन्यते । त्रयोदश्यां कामदेवपूजामदनोत्सवे सेयमुदाहृता स० कण्ठाभरणे (५ परि.) 1
प्रथममेव प्रवासार्थं प्रस्थितस्य नवप्रवासिनः प्रियाविप्रयोगात्प्रवृत्तां पीडां प्रस्तुवन् कश्वित्प्रवास प्रतिषेधार्थमाह---
आलोअन्त दिसाओ ससन्त जम्भन्त गन्त रोअन्त । मुच्छन्त पडन्त खलन्त पहिअ किं ते पउत्थेण ॥ ४६ ॥ [ आलोकयन्दिशः श्वसञ्जुम्भमाण गायन्रुदन् । मूर्छन्पतन्स्खलन्पथिक किं ते प्रवसितेन ॥ ] पश्यन्दिशः श्वसन्किल गायन्विरुदंश्च जृम्भमाण मुहुः । मूर्च्छन्स्खलन्विनिपतन्पथिक नु किं ते प्रवासेन ॥ ४६ ॥
विरहचकितत्वाद्दिशोऽवलोकयन्, प्रेयसीस्मरणाच्छ्सन्, दुःखविनोदाय गायन, तदुत्कण्ठावशात्रुदन्, मदनायासेन मुहुर्नृम्भमाण, प्रियतमैकान्तचित्तत्वान्मूर्च्छादिविकारान्प्रावन हे पथिक ते प्रवासेन किं फलम् ? यतः साम्प्रतमेव ते सेयं दशा, तर्हि विदेशस्थित का ते दशा भाविनीति को जानीते । तस्मान्निवर्तस्वेति भावः । एवं च प्रवासः प्रियैकान्तचित्तानां दुःखायैवेति सूच्यते ।
सख्या रहोवृत्तमनुसंधातुं गता कथमेतावद्विलम्बेनागतासीति सख्या पृष्टा सखी
तामाह—
दहूण तरुणसुरअं विविहविलासेहिँ करणसोहिल्लम् । दीओ वि तग्गअमणो गअं पि तेल्लं ण लक्खेइ ॥ ४७ ॥ [दृष्ट्वा तरुणसुरतं विविधविलासैः करणशोभितम् । दीपोऽपि तद्वतमना गतमपि तैलं न लक्षयति ॥ ] संदृश्य तरुणसुरतं विविधविलासैश्च करणपरिलसितम् । दीपोपि तद्गतमना गतमपि तैलं न लक्षयति ॥ ४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org