________________
६ शतकम् ] संस्कृतगाथासप्तशती ।
२७७ अत एव भ्रमरपदापेक्षया मधुपपदमनुकूलम् । पीतेनाम्रकुसुमेन वह्नः, उपरि भ्रमता श्यामेन भ्रमरकुलेन च उद्गच्छन्त्या धूमशिखायाः साम्यमपि समुचितमासूचितं ग्रन्थकारेण । तथा च-ज्वलन इव सहकारकुसुमं सम्प्रति मां दहेदिति प्रियतमाह्वानार्थमेव यतनीयं न मुधाऽऽश्वासनार्थमिति सखीं प्रति धन्यते ।
मदनोत्सवे (होलिकोत्सवे) सुरतलुलितवेषां कांचन योषां बहुमन्यमानः कश्चन विदग्धः प्रसाधनपक्षपातिनं सहचरमाह-~
दइअकरग्गहलुलिओ धम्मिल्लो सीहुमन्धि वअणम् । मअणम्मि एत्ति चिअ पसाहणं हरइ तरुणीणम् ॥४४॥
[दयितकरग्रहलुलितो धम्मिल्लः सीधुगन्धितं वदनम् । ___ मदने एतावदेव प्रसाधनं हरति तरुणीनाम् ॥] दयितकरग्रहलुलितो धम्मिल्लः सीधुगन्धितं वदनम् ।
एतावदेव मदने प्रसाधनं हरति तरुणीनाम् ॥४४॥ मदनोत्सवे एतावदेव तरुणीनां मण्डनं कामिनां मनो हरति । अथवा भदने सति कामोदये सतीत्यर्थः । सुरतानुकूलमेतावदेव मण्डनं मनोहारि, सुरतप्रतिबन्धकैः किमन्यैर्भूषणैरिति भावः । एतावदेवेत्येवकारेण अधारितैरपि हारकेयूरादिभिर्न प्रसाधनत्रुटिः । धारितैरपि कर्णावतंसनासाभूषणादिभिश्च विशिष्य सुरतोपयोगाभावान्न मनोहरणमिति धम्मिल्हाद्योरेव असाधारणभूषणतेत्यतिशयः सूच्यते । अत एव दृढमाबद्धो धम्मिल्लोपि न तस्मिन्समये मनोहारी, प्रत्युत विलुलितप्रायतया निधुवने ग्रहणसुकरः शिथिलबन्धन एवेति दयितकरग्रहलुलितविशेषणेन व्यज्यते। तरुणीनामित्यनेन-नवागता बालाः काममितरद्भरि भूषणं धारयन्तु नाम, पर सुरतरसिकानां प्रमदानां त्विदमेव मण्डनमित्यतिशयः सूच्यते । मण्डनादिस्थाने प्रसाधनपदेन-इदमेव प्रसाधनं सुरते प्रकृटं साधन मिति निरुक्तिः सूच्यते । अत्र गङ्गाधरस्तु-'मदने इति निमित्तसप्तमी वा । मदननिमित्तमित्यर्थः।' इति वाचख्यौ। परं यदि निमित्तसप्तमीपदेन 'निमित्तात्कर्मयोगे' इत्यपि सप्तमी बुध्येत, तद्यपि न गतिः। कर्मणो योगाभावात् । अस्तु। 'किमलकरणेन, शीघ्रं कान्तमभिसर' इति दूतीवचनमिति कश्चित् । परमत्र अभिसारात्पूर्वमेव 'दयितकरग्रहलुलित' इति विशेषणं कष्टात्संगच्छेत ।
मदनोत्सवे ग्रामयुवत्योपि मनोहारिण्यो भवन्तीति तदुत्सवस्योन्मादकतां साधयन्कश्चित्सहचरमाह
गामतरुणीऔं हिअ हरन्ति छेआण थणहरिल्लीओ। मअणे कुसुम्भरजिअकञ्च[इ]आहरणमेत्ताओ॥ ४५ ॥ [ग्रामतरुण्यो हृदयं हरन्ति विदग्धानां स्तनभारवत्यः ।
मदने कुसुम्भरागयुक्तक काभरणमात्राः ॥] सं.गा. २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org