________________
२७६
काव्यमाला ।
[जिह्वायां (पक्षे-जिह्वया) कुर्वन्ति प्रियं भवन्ति हृदये निवृति कर्तुम् ।
पीख्यमाना अपि रसं जनयन्तीक्षवः कुलीनाच] जिह्वायां कलयन्ति प्रियं हृदि च सन्ति निवृति नेतुम् ।
जनयन्ति पीडिता अपि रसमिक्षुधनाः कुलीनाश्च ॥४१॥ मधुररसत्वात्प्रियंवदत्वाच्च जिह्वायां प्रियम् आखादम् , अनुकूलं मनोरथं च कलयन्ति वदन्ति कुर्वन्ति च । 'कल' कामधेनुः । हृदये निर्वृतिम् ऊष्मजनिततापस्य उद्वेगस्य च प्रशमं कर्तु सन्ति भवन्ति प्रभवन्ति । पीज्यमानाः दन्तैर्निष्पीड्यमानाः निष्ठुरभाषणेन खेद्यमानाश्च इक्षुधनाः (घनाः इक्षवः) कुलीनाश्च यथाक्रमं रसं मधुरद्रवं प्रीतिं च जनयन्ति । 'जीहाइ' इति प्राकृतस्य 'जिह्वायाम्' 'जिह्वया' चेत्युभयमप्यर्थः । कुलीनपक्षे जिह्वया अन्यस्य प्रियं कुर्वन्तीत्यर्थो गङ्गाधरेण छायायां कृतः । 'अनुनेतुमागतं प्रियवादिनं कान्तं कलहान्तरिता सपरितोषमाह' इति तत्रावतरणम् ।
चिलैर्विनापि वसन्तागमः प्रतीयत एवेति तद्विषये विप्रतिपद्यमानां श्वश्रू प्रति विवे. किनी वधूराह
दीसइ ण चूअमउलं अत्ता ण अ वाइ मलअगन्धवहो । पत्तं वसन्तमासं साहइ उक्कण्ठिअं चेअम् ॥ ४२ ॥ [दृश्यते न चूतमुकुलं श्वश्रु न च वाति मलयगन्धवहः ।
प्राप्तं वसन्तमासं कथयत्युत्कण्ठितं चेतः॥] श्वश्रु न च चूतमुकुलं विलोक्यते वाति न च मलयवातः।
प्राप्तं वसन्तमासं कथयत्युत्कण्ठितं चेतः॥४२॥ बायैश्चिह्नर्विनापि प्रियतमार्थमुत्पन्ना उत्कण्ठा वसन्तं सूचयतीति भावः ॥ 'नागतः सम्प्रति वसन्तः, आश्वसिहि' इति सान्त्वयन्तीं सखी प्रति वसन्तागमं साधयन्ती नायिका आह
अम्बवणे भमरउलं ण विणा कज्जेण ऊसुअं भमइ । कत्तो जलणेण विणा धूमस्स सिहाउ दीसन्ति ॥ ४३ ॥ [आम्रवने भ्रमरकुलं न विना कार्येणोत्सुकं भ्रमति ।
कुतो ज्वलनेन विना धूमस्य शिखा दृश्यन्ते ॥] न विना कार्येणोत्सुकमाम्रवने भ्रमति मधुपकुलम् ।
ज्वलनेन विना हि कुतो धूमस्य शिखाः प्रदृश्यन्ते ॥४३॥ मधुपानशीलं मधुपकुलं कुसुमं विना नाने भ्रमति । आम्रान्तः कुसुमोद्गमे जाते च वसन्तः समागत एवेति भावः । वह्विव्याप्यधूमेन यथा वह्नेस्तथा मधुगन्धलोभिनो मधुपकुलस्य भ्रमणेन सहकारे कुसुमोद्गमस्यानुमानम् , तेन च वसन्तसिद्धिरित्याशयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org