________________
६ शतकम् ]
संस्कृतगाथा सप्तशती ।
कस्याश्चिचिरप्रोषितपतिकायाः सखी तत्कान्तसविधगामिनं पथिकं प्रति संदिशतिअविहवलक्खणचलअं ठाणं णेन्तो पुणो पुणो गलिअम् । सहिसत्थोचिअ माणंसिणीअ वलआरओ जाओ ।। ३९ ।। [ अविधवालक्षणवलयं स्थानं नयन्पुनः पुनर्गलितम् । सखीसार्थ एव मनस्विन्या वलयकारको जातः ॥ ] स्थानमविधवालक्षणवलयं विनयन्पुनः पुनर्गलितम् । बलकारकः सखीगण एव हि जातो मनखिन्याः ॥ ३९ ॥ विरहदौर्बल्याद् गलितं जीवत्पतिकाया लक्षणभूतं वलयं पुनः पुनः स्वस्थानं नयन्, मनखिन्याः सखीगण एव विरह निर्बलतायामपि बलकारकः आश्वासप्रदानेन बलदायको जातः । अथवा 'वलआरओ' इत्यस्य गलितेपि वलये पुनः पुनर्वल्यदानाद् 'वलयाकरः' जात इत्यर्थः । ' मनखिन्याः' इत्यनेन - सखीगणदत्तसमाश्वासना सा केवलं मनोबलादेव साम्प्रतमात्मानं वारयति, इति सूच्यते । गङ्गाधरस्तु - 'कलहान्तरितया कोपोज्झितभूषणयापि न त्यक्तानि वलयानीति तस्याः सुज्ञतां विरहकृशतां च सूचयन्ती सखी तत्कान्तमाह' इत्यवतरणं विधाय 'वलआरओ' इत्यस्य 'वलयकारकः वलयपरिधापकः' इति व्याख्यामाह । विरहिणीप्रसङ्गे पठिताया अस्याः कलहान्तरिताविषयकत्वं तु स्वल्पकाल एव एतावत्कार्यादिसाधनोपपत्तिकाठिन्येन कष्टकल्पनप्रायमिति मन्मतिः । वर्षासु विरहिणीनां वेदनातिशयं वर्णयन्कश्चिद् गृहगमनाय पथिकं त्वरयितुमाहपहिअवह विवरन्तरगलिअजलोल्ले घरे अणोल्लं पि । उद्देसं अविरअवाहसलिलणिवण उल्लेइ ॥ ४० ॥ [पथिक वधूर्विवरान्तरगलितजलाई गृहेऽनार्द्रमपि ।
उद्देशम विरतबाष्प सलिलनिवहेनार्द्रयति ॥ ] पथिकवधूर्विवरान्तरगलितजलाई गृहेऽप्यनार्द्रमहो । उद्देशमाईयति पतद विरतबाप्पाम्बुनिवहेन ॥ ४० ॥
जीर्णस्य तृणगृहच्छदिषश्छिद्रान्तराद् गलितेन जलेना । अनार्द्रमपि उद्देशं स्थानम् अनवरतं पतता बाष्प सलिलेनार्द्रयति । विवरात्पतता जलेन दुःखिता शुष्के स्थाने स्थित्वापि प्रियस्मरणोत्कण्ठावशान्निरन्तरपतदश्रुतया तदपि स्थानमाई करोतीत्यर्थः । 'वधू' पदेन नवयौवनात्वं गुरुजनलज्जावशाद् गृहान्तः स्थितिसापेक्षत्वं च सूचितम् | जीर्णगृहवर्णनात् - दुर्वद्ददारिद्र्याक्रान्तापि त्वत्प्रेमैकजीवना नाद्यापि मनोऽन्यत्र नयति, तत्त्वरितमिमां संभावयेति तद्दयितं प्रति सूच्यते ।
२७५
कलहान्तरिताया दूती तत्कान्तमनुनयार्थ प्रोत्साहयन्ती कुलीनप्रशंसाप्रसङ्गेनाह— जीहाइ कुणन्ति पिअं भवन्ति हिअअम्मि णिव्बुई काउम् । पीडिञ्जन्ता विरसं जणन्ति उच्छू कुलीणा अ ॥ ४१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org