________________
२७४
काव्यमाला ।
पञ्चमी न । अनया उपमया 'खलात्केवलं भयमेव, न तु काचित्सिद्धिः, ( यथा मृतचौरदेहात् )' इति तस्य परिहरणीयत्वं ध्वन्यते ।
प्रावृषि प्रवासं परिहृत्य प्रियतमाः प्रतिनिवर्तन्त इति प्रोषितपतिका प्रियसखी प्रबोधयन्ती प्रौढा कापि पितृष्वसारं प्रत्याह
असमत्तगुरुअकजे एहिं पहिए घरं णिअत्तन्ते । णवपाउसो पिउच्छा हसइ व कुडअट्टहासेहिं ॥ ३७॥ [असमाप्तगुरुककार्ये इदानीं पथिके गृहं प्रतिनिवर्तमाने ।
नवप्रावृट् पितृष्वसः हसतीव कुटजाट्टहासैः ॥] असमाप्तगुरुककार्य सम्प्रति पथिके गृहं समायाति ।
हसतीव नवप्रावृटू पितृष्वसः कुटजहासेन ॥ ३७॥ न समाप्तं गुरुकमावश्यक कार्य यस्य तस्मिन् , समायाति प्रतिनिवर्तमाने सति । 'मचिह्नदर्शनाद्भीतः प्रियाविरह सोढुमशक्नुवन्नकृतावश्यककार्य एवैष गृहं प्रत्यागतः' इति कुटजकुसुमविकासरूपेण अट्टहासेन हसतीव । नवप्रावृडिति नवपदेन-आरम्भ एव प्रेयसीसमागमोत्कण्ठः प्रतिनिवृत्त इति प्रावृष उद्दीपकत्वातिशयः सूच्यते । तथा च-'गुरुकार्याण्यपि त्यक्त्वा यदा प्रवासिनः समायान्ति तर्हि सामान्यकार्यगतः सोचिरात्समायास्यति । मा उत्ताम्य । आरम्भ एव सोयं प्रावृषः' इति नवपदसहकारेण सखीं प्रति ध्वन्यते। गृहगमनाय पथिकं त्वरयितुं काचित्प्रावृषि प्रोषितभर्तृकाया वृत्तान्तमुपक्रमते
दद्दण उण्णमन्ते मेहे आमुकजीविआसाए । पहिअघरिणीअ डिम्भो ओरुण्णमुहीअ सचविओ ॥ ३८॥ [ दृष्ट्वा उन्नमतो मेघानामुक्तजीविताशया।
पथिकगृहिण्या डिम्भोऽवरुदितमुख्या दृष्टः ॥] उन्नमतो नवमेघान्विमुक्तनिजजीविताशया दृष्ट्वा ।
पथिकगृहिण्या डिम्भो विरुदितमुख्या हि संदृष्टः ॥३८॥ उन्नमतः शनैः शनैरुज्जम्भमाणान् मेघान्दृष्ट्वा मुक्ता निजजीवनस्य आशा यया एतादृश्या पथिकगृहिण्या रुदत्या सत्या शिशुरवलोकितः । प्रावृषि विरहवेदनया मृतायां मयि अल्पवयसोऽस्य का गतिः स्यात् ? क इमं पालयेदिति चिन्तयेति भावः । 'उन्नमतः' इति वर्तमानार्थकेन शत्रा 'विमुक्त'ति भूतार्थकेन तेन च 'शनैः शनैर्जलदास्तु वर्द्धन्त एव, तथा चाग्रे न मे जीवितं भवेदिति उदयत्स्वेव मेघेषु जीवनाशा त्यक्ता' इति दुःखातिशयः सूच्यते । 'गृहिणी'पदेन गृहभारसंचालकतया खस्याभावे डिम्भस्य निराश्रयत्वं ध्वन्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org