Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 374
________________ ६ शतकम् ] संस्कृतगाथासप्तशती । [ वाचया किं भण्यतां कियन्मात्रं वा लिख्यते लेखे । तव विरहे यद्दुःखं तस्य त्वमेव गृहीतार्थः ॥ ] किं भण्यतां नु वाचा कियदिव वा लिख्यते लेखे । तव विरहे यद्दुःखं त्वमेव तस्यासि विदितार्थः ॥ ७१ ॥ दुःखानामसीमत्वात्किं वक्तव्यं कियद्वा लेखितव्यमित्यर्थः । तव विरहे यन्मम दुःखं तस्य विदितार्थः ( विदितः अर्थो येन ) अर्थात् परिज्ञाता त्वमेवासि । अहर्निशं हृदये स्थितस्त्वमेव मम हृदयदुःखं ज्ञातुं प्रभवसीति भावः । अथवा मद्विरहे त्वया यावद्दुःखमनुभूतं तदनुमानेन ममापि दुःखं त्वया परिज्ञातव्यमित्याशयः । 'ज्ञाता' इत्याद्यनुक्त्वा 'विदितार्थः' इतिपदेन 'किमर्थमिदं दुःखमित्येतस्य तत्त्वं त्वमेव जानासि, अर्थात् त्वत्कारणकमिदं दुःखं त्वरितमागतेन त्वयैवापनेयम्' इति द्योत्यते । कस्याश्चित्केशपाशं साभिलाषं निर्वर्णयन्कश्चिद्वयस्यं प्रति प्रकाशं प्राह दाह अणग्गणो व धूमं मोहणपिच्छि व लोअदिडीए । जोबणअं व मुद्धा वहइ सुअन्धं चिउरभारम् ॥ ७२ ॥ [ मदनानेरिव धूमं मोहनपिच्छिकामिव लोकदृष्टेः । यौवनध्वजमिव मुग्धा वहति सुगन्धं चिकुरभारम् ॥ ] जनदृष्टेः संमोहनपिच्छीमिव धूममिव च मदनाग्नेः । यौवनविजयध्वजमिव वहते मुग्धा सुगन्धिचिकुरभरम् ॥ ७२ ॥ लोकानां दृष्टेः संमोहनार्थं पिच्छिकामिव । ऐन्द्रजालिकोपि पिच्छिकाभ्रमणेन लोकानां दृष्टेर्मोहं करोति । मदनाने धूमौपम्येन एतद्धूमसहचारी मदनवह्निर्विर हे दग्धुं प्रभवतीति नायिकाया आकर्षकतातिशयो ध्वन्यते । यस्मिंस्त्वमनुरक्तासि तस्य ते दयितस्य वर्णय रूपमिति पृच्छन्तीं सखीमन्या काचि रूअं सिहं चिअ से असेसपुरिसे णिअत्तिअच्छेण । वाले इमीए अजम्पमाणेण वि मुहेण ॥ ७३ ॥ [ रूपं शिष्टमेव तस्याशेषपुरुषे निवर्तिताक्षेण । अल्पतापि मुखेन ॥ ] तद्रूपमुक्तमेव हि समस्तपुरुषे निवर्तिताक्षेण । वाष्पाणैतस्या अजल्पतापि च मुखेन सखि ॥ ७३ ॥ २८९ हे सखि तदतिरिक्ते अशेषपुरुषे, अशेषपुरुषादिति यावत् । निवर्तिते निरुत्कण्ठतया परावर्तिते अक्षिणी येन । तत्स्मरणोत्कण्ठया सम्प्रति बाष्पार्मेण एतस्या मुखेन अजपवापि तस्य रूपमुक्तमेव । अन्यपुरुषनिरपेक्षं तदासक्तत्वात्तस्य परमसौन्दर्यं कथितमेवेति सं. गा. २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446