________________
६ शतकम् ]
संस्कृतगाथासप्तशती ।
[ वाचया किं भण्यतां कियन्मात्रं वा लिख्यते लेखे । तव विरहे यद्दुःखं तस्य त्वमेव गृहीतार्थः ॥ ] किं भण्यतां नु वाचा कियदिव वा लिख्यते लेखे । तव विरहे यद्दुःखं त्वमेव तस्यासि विदितार्थः ॥ ७१ ॥ दुःखानामसीमत्वात्किं वक्तव्यं कियद्वा लेखितव्यमित्यर्थः । तव विरहे यन्मम दुःखं तस्य विदितार्थः ( विदितः अर्थो येन ) अर्थात् परिज्ञाता त्वमेवासि । अहर्निशं हृदये स्थितस्त्वमेव मम हृदयदुःखं ज्ञातुं प्रभवसीति भावः । अथवा मद्विरहे त्वया यावद्दुःखमनुभूतं तदनुमानेन ममापि दुःखं त्वया परिज्ञातव्यमित्याशयः । 'ज्ञाता' इत्याद्यनुक्त्वा 'विदितार्थः' इतिपदेन 'किमर्थमिदं दुःखमित्येतस्य तत्त्वं त्वमेव जानासि, अर्थात् त्वत्कारणकमिदं दुःखं त्वरितमागतेन त्वयैवापनेयम्' इति द्योत्यते ।
कस्याश्चित्केशपाशं साभिलाषं निर्वर्णयन्कश्चिद्वयस्यं प्रति प्रकाशं प्राह
दाह
अणग्गणो व धूमं मोहणपिच्छि व लोअदिडीए । जोबणअं व मुद्धा वहइ सुअन्धं चिउरभारम् ॥ ७२ ॥ [ मदनानेरिव धूमं मोहनपिच्छिकामिव लोकदृष्टेः । यौवनध्वजमिव मुग्धा वहति सुगन्धं चिकुरभारम् ॥ ] जनदृष्टेः संमोहनपिच्छीमिव धूममिव च मदनाग्नेः । यौवनविजयध्वजमिव वहते मुग्धा सुगन्धिचिकुरभरम् ॥ ७२ ॥
लोकानां दृष्टेः संमोहनार्थं पिच्छिकामिव । ऐन्द्रजालिकोपि पिच्छिकाभ्रमणेन लोकानां दृष्टेर्मोहं करोति । मदनाने धूमौपम्येन एतद्धूमसहचारी मदनवह्निर्विर हे दग्धुं प्रभवतीति नायिकाया आकर्षकतातिशयो ध्वन्यते ।
यस्मिंस्त्वमनुरक्तासि तस्य ते दयितस्य वर्णय रूपमिति पृच्छन्तीं सखीमन्या काचि
रूअं सिहं चिअ से असेसपुरिसे णिअत्तिअच्छेण । वाले इमीए अजम्पमाणेण वि मुहेण ॥ ७३ ॥
[ रूपं शिष्टमेव तस्याशेषपुरुषे निवर्तिताक्षेण । अल्पतापि मुखेन ॥ ]
तद्रूपमुक्तमेव हि समस्तपुरुषे निवर्तिताक्षेण । वाष्पाणैतस्या अजल्पतापि च मुखेन सखि ॥ ७३ ॥
२८९
हे सखि तदतिरिक्ते अशेषपुरुषे, अशेषपुरुषादिति यावत् । निवर्तिते निरुत्कण्ठतया परावर्तिते अक्षिणी येन । तत्स्मरणोत्कण्ठया सम्प्रति बाष्पार्मेण एतस्या मुखेन अजपवापि तस्य रूपमुक्तमेव । अन्यपुरुषनिरपेक्षं तदासक्तत्वात्तस्य परमसौन्दर्यं कथितमेवेति सं. गा. २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org