SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २९० काव्यमाला। भावः । अजल्पतापि कथितमिति विरोधेन 'अस्मत्तो रहस्यगोपनेच्छायामपि प्रेमपारवश्यानेयं प्रभवतीत्यनुरागसंवर्धको नायकगुणोत्कर्षों ध्वन्यते। मनुजागमनसंरम्भेण खस्थानत्यागवशाद्विरुवन्मकरन्दमत्तमधुकरतया कमलवनमेतस्कयोश्चित्संकेतस्थानमिति खाभिज्ञतां सूचयन् सहृदयः सहचरमाह रुन्दारविन्दमन्दिरमअरन्दाणन्दिआलिरिज्छोली । झणझणइ कसणमणिमेहल व महुमासलच्छीए ॥ ७४ ॥ [बृहदरविन्दमन्दिरमकरन्दानन्दितालिपतिः।। झणझणायते कृष्णमणिमेखलेव मधुमासलक्ष्म्याः ॥] विकसदरविन्दमन्दिरमकरन्दानन्दिता मिलिन्दालिः। मधुरमधुमासलक्ष्म्याः कृष्णा मणिमेखलेव शिञ्जाना ॥ ७४॥ विकसत्तया बृहत् यद् अरविन्दमेव मन्दिरं तत्र मकरन्देनानन्दिता अत एव गुञ्जन्ती भ्रमरपतिः । शिक्षाना झण्झणितिरवमुखरा कृष्णमणिघटितत्वात् कृष्णा मणिमेखलेव भातीति शेषः । भ्रमराणां श्यामतया कृष्णमणीनां मेखलेत्युक्तम् । उद्दीपनविभावप्रतिपादनात्संकेतस्थानस्तुतिपरं दूत्या इदं वचनमिति केचित् । “प्रियेण सह क्रीडारसादविदितनिशावसानां सखी प्रबोधयन्ती सखी प्रभातवर्णनमाह' इति गङ्गाधरः । यदीह 'झणझणायते' इत्यादिप्राकृतगुम्फानुरोधस्तर्हि 'कृष्णमणिमेखलेव हि मधुश्रियो झणझणायते नूनम्' इति पाठ्यम् । कामोत्कलिकाकुलः कोपि कामुकः कामपि कामिनी कथयति कस्स करो बहुपुण्णप्फलेकतरुणो तुहं विसम्मिहइ । थणपरिणाहे मम्महणिहाणकलसे व पारोहो ॥ ७५ ॥ [कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति । स्तनपरिणाहे मन्मथनिधानकलश इव प्ररोहः ॥] बहुपुण्यफलैकतरोः प्ररोह इव कस्य किल करो हन्त । मन्मथनिधानकलशे स्तनपरिणाहेऽत्र विश्रमिष्यति ते ।। ७५ ॥ बहूनां पुण्यफलानामेकमात्रस्य तरोः प्ररोह इव नवपल्लव इव कस्य जनस्य करः मन्मथनिधिकलशायिते तव स्तनपरिणाहे विश्रमिष्यति स्थान प्राप्स्यति । परिणाहो विशालता। विशालस्तन इति यावत् , प्राकृते पूर्वनिपातानियमात् । पुरुषखरुस्थानीयः, तस्य करः प्ररोहस्थानीय इत्याशयः। पल्लवो यथा कस्मिंश्चिदृक्षे उत्पद्यापि यथा निधिकलशे शोभाशकुनाथ स्थाप्यते, तथा कस्य वा सुकृतिनः करोऽत्र स्थास्यतीत्याशयः । कस्येत्यनेन-स पुरुषः अनिर्वचनीयः सुकृतीति सूच्यते । हन्तेत्यनेन-न मे तारक्सौभाग्यमिति खेदातिशयः सूच्यते। 'निधानकलशे' 'विश्रमिष्यति' इति पादाभ्यां-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy