________________
६ शतकम् ]
संकृतगाथासप्तशती ।
२९१
'धनान्वेषी करो यथा निधिकलशे गत्वा धनविषयेऽन्यानपेक्षित्वात्तत्र सुखं विश्राम्यति, तथा अन्यत्रान्यत्र संचलन्नपि स करो विशालेत्र स्तने विश्रामं लप्स्यते नान्यत्र भ्रमिष्यति, एतत्सदृशान्यस्तनानुपलम्भात्' इति तदुत्कर्षो ध्वन्यते । निधानकलशायित इति स्था कलश इत्युक्तया - कलश सदृशास्तु अन्येपि कुहचिह्नभ्येरन् परमयं तु साक्षात्कामनिधानकलश एवेति तदुत्कर्षो व्यज्यते । प्राकृते तच्छायायां च बहुदूरान्वयादस्पष्टतरः श्लोकार्थः । इह तु न स क्लेशः । 'निधानकलश इव स्तनपरिणाहे' इति इवपदं कलशेन साकं तु न योज्यम्, प्ररोहपदस्य तत्सापेक्षत्वादौचित्याच्च । सरस्वतीकण्ठाभरणे 'अनूढा कुमारी यथा' इत्युदाहृता सेयं गाथा । स्तनपरिणाहशालिन्या अपि कुमारीत्वं यौवनविवाहवादिनामनुकूलं स्यात् ।
लाभलोभवन्तो विविक्तेऽनुसरन्तोपि मनोभिलषितां वनितां पतिजनितातङ्कशङ्कया कामुक नाभियुञ्जते नापि च परावर्तन्ते इति प्रदर्शयन्सहृदयः सहचरमाहचोरा सभअसत पुणो पुणो पेसअन्ति दिट्ठीओ । अहिरक्खिणिहिकलसे व पोढवइआथणुच्छङ्गे ॥ ७६ ॥
[ चोराः सभयसतृष्णं पुनः पुनः प्रेषयन्ति दृष्टीः । अहिरक्षितनिधिकलश इव प्रौढपतिकास्तनोत्सङ्गे ॥ ]
चोराः सभयसतृष्णं पुनः पुनः प्रेषयन्ति बत दृष्टीः । प्रौढपतिकास्तनेस्मिन्निधिकलश इवाहिरक्षिते सततम् ॥ ७६ ॥
,
परधनहारकाश्चोरा यत्नशतेन गुप्तस्थानमवाप्ता अपि अहिना रक्षिते निधिकलशे यथा सर्पकारणात्सभायां निधिलोभाच्च सतृष्णां दृष्टिं पातयन्ति तथा परदारहारका चोराः प्रौद्रः शूरः पतिर्यस्या एवंविधाया नायिकायाः स्तने हन्त सभयसतृष्णां दृष्टिं पातयन्तीत्यर्थः । पुनः पुनः पदेन 'भयमाशङ्कय दृष्टिं निवर्तयन्ति पुनर्लोभाकृष्टास्ततो दृष्टिं नयन्ती'ति चित्तान्दोलनं सूच्यते । 'दृष्टीः' इति बहुत्वेन - निभृतं प्रकाशं तिर्यगादिनानाप्रकाराः सतृष्णदर्शनस्य सूच्यन्ते । पश्यन्तीति स्थाने 'दृष्टिं प्रेषयन्ति' इत्युक्त्या - इच्छा तु हस्तप्रेषणस्यैवासीत् परं भयवशात्सतृष्णां दृष्टिमेव पारवश्यात्प्रेषयन्तीति लौल्यातिशयो ध्वन्यते । अहिदृष्टान्तेन - अहिर्यथा निधेरुपयोगमकुर्वन् केवलं तदुपरि रक्षावहितस्तिष्टति तथा 'पातीति पतिरिति' केवलं तद्रक्षामात्रव्यग्रः शूरतया बलापचयशङ्कया स्वयं भोगादिकं न करोतीति ध्वन्यते । सततमित्यनेन - सर्पो यथा निरन्तरं तत्रावतिष्ठते तथायमपि खल्पमप्यवसरं न ददातीति ध्वन्यते । अस्मिन्निति साभिलाषमङ्गुलिनिर्देशेन स्वस्याप्याकाङ्क्षासूचनात्स्तनस्याकर्षकतातिशयो व्यज्यते । 'यो यच्छलः स सापायादपि तस्मान्मनो निवर्तयितुं न शक्नोतीति निदर्शयन्नागरिकः सहचरमाह' इति गङ्गाधरः । भयानुरागभावयोः संकरसत्तायामपि उपमालंकारस्यैव प्राधान्यमिति विष सेयमुदाहृता स० कण्ठाभरणे ( ५ परि. ) ।
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org