SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ २९२ . काव्यमाला । विदेशं जिगमिषन्तं कान्तं प्रावृड्वर्णनच्छलेन ततो निवर्तयन्ती काचिदाह उवहइ णवतणङ्कुररोमञ्चपसाहिआई अङ्गाई। पाउसलच्छीअ पओहरोहिँ परिपेल्लिओ विझो ॥ ७७ ॥ [उद्वहति नवतृणाङ्कुररोमाञ्चप्रसाधितान्यङ्गानि । प्रावृड्लक्ष्म्याः पयोधरैः परिप्रेरितो विन्ध्यः ॥] अङ्गानि नवतृणाङ्कररोमाञ्चविमण्डितानि संवहते । प्रावृइलक्ष्म्याः पीवरपयोधरप्रेरितो विन्ध्यः ॥ ७७ ॥ नवतृणाङ्कुरा एव रोमाञ्चस्तेन मण्डितानि । पीवरैर्महद्भिः पयोधरैर्मेघैः प्रेरित उत्तेजितः। अन्योपि कामुको गृहलक्ष्म्याः पीवरपयोधराभ्यां परिस्पृष्टो रोमाञ्चमावहतीति पयोधरपदसांनिध्यावन्यते । अत एव 'पयोधरैः प्रेरितः' इति व्यस्तबहुवचनान्तमनुक्त्वा समस्तं प्रायुज्यतेति सहृदयैस्तारतम्यं परीक्ष्येत । रोमाञ्चयुक्तानीति वक्तव्ये रोमाञ्चविमण्डितानीत्युक्त्या-तस्मिन्समये रसिकानां तदेव सर्वमण्डनेभ्योतिशयितं मण्डनमिति तदुत्कर्षः सूच्यते । तथा च 'अस्मिन्समये अचेतनो विन्ध्योपि रसिकचर्यामनुरुन्धे, तर्हि रसिकमानी भवानेव किं वर्षासु विलासविमुखो भविष्यति' इति प्रवासप्रतिषेधश्वरमं व्यङ्ग्यम् । भोजस्तु विन्ध्यगतमेव रतिभावं मन्वानः 'गौणेषु सेयं रतिरिति' रसाभासविषये इमामुदाजहार (५ परि.)। कोपि प्रियसुहृदं प्रति प्रियतमायाः प्रशंसामपरापदेशेनाह आम बहला वणाली मुहला जलरङ्कुणो जलं सिसिरम् । अण्णणईण वि रेवाइ तह वि अण्णे गुणा के वि ॥ ७८ ॥ [सत्यं बहला वनाली मुखरा जलरङ्कवो जलं शिशिरम् । अन्यनदीनामपि रेवायास्तथाप्यन्ये गुणाः केऽपि ॥] आम् वहला विपिनाली मुखरा जलरङ्कवो जलं शिशिरम् । अन्यनदीनामपि पुनरन्ये केचन गुणास्तु रेवायाः ॥ ७८॥ आम् इति स्वीकारे । अन्यासां नदीनामपि-पर्यन्त विस्तृता वनपतिनिबिडा, जल. पक्षिणो मधुरशब्दकराः, जलं शीतमस्ति, इति खीकुर्मः परं रेवाया गाम्भीर्यादयः केचन गुणाः पुनरन्ये एव इतरनदीविलक्षणा एव । अत्रार्थशक्तिसमुत्थेनानुरणनेन'अन्यासां महिलानामपि पर्यन्ततोगविधृता शाटीप्रभृतिवसनसामग्री विपुला, (मुखरजलरङ्कुपदेन सूचिताः) नूपुरादयोपि मनोहरणाय सशब्दाः, अङ्गस्पर्शसुखमपि सुतरां निर्वापकमस्ति, तथापि तस्या नायिकायाः सौभाग्यादयो गुणा अन्यनायिकाविलक्षणा एवेति ध्वन्यमानोऽर्थः प्रतीयते । नायकप्ररोचनाय दूत्याः सेयमुक्तिरिति केचित् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy