________________
६ शतकम् ] संस्कृतगाथासप्तशती।
२९३ कोपि कामुकः कस्याश्चित्कुचौ साकासमाकलयन्कमपि सुहृदं कथयति
एह इमीअणिअच्छह परिणअमालूरसच्छहे थणए । तुङ्गे सप्पुरिसमणोरहे व हिअए अमाअन्ते ॥ ७९ ॥
[आगच्छतास्या निरीक्षध्वं परिणतमालूरसदृशौ स्तनौ । _____ तुङ्गौ सत्पुरुषमनोरथाविव हृदये अमान्तौ ॥] परिणतमालूरसमावागच्छत पश्यत स्तनावस्याः।
उत्तुङ्गो हृदयेपि च सत्पुरुषमनोरथाविवामान्तौ ॥ ७९ ॥ पक्वतया पूर्णपरिणाहेन मालूरेण (बिल्वेन ) सदृशौ । हृदये वक्षसि विशालतया अमान्तौ । पुण्यवतां मनोरथा अपि उन्नताः, हृदये चेतसि च न मान्ति, किन्तु बहिः प्रकटीभूय कार्यरूपे परिणमन्ति । किंवा-सत्पुरुषाणामकल्मषतया तेषां मनोरथाः सुहृत्सु प्रकटीभवन्ति । दुर्जनानां तु विचाराश्छद्मघटिततया हृदय एव गुप्ता भवन्ति । प्राकृते द्विवचनबहुवचनयोरैक्यादुभयत्र वचनसाम्यम् । अत एव वचनभेदनिबन्धन उपमादोषो नात्रेति बोध्यम् । संस्कृते तूपमेययोः स्तनयोरनुरोधेन उपमाने मनोरथेपि द्वित्वमावश्यकमापतितम्। उपलक्षणं चेदं बहुवचनस्य । आगच्छत पश्यतेत्युकिरवसरोयमिति सूचनाय । हृदये अमानस्योक्त्या 'सुतरामवरुद्धोपि ममैतद्हणविषयको मनोरथः साम्प्रतं विवशतया स्फुटीभावोन्मुखः' इति सूच्यते। वर्षासु विरहवेदनामधिकतमामासूचयन्ती कापि कान्तानयनत्वरार्थ सखीमाह
हत्थाहत्थि अहमहमिआइ वासागमम्मि मेहेहिम् । अव्वो किं पि रहस्सं छण्णं पि णहङ्गणं गलइ ॥ ८०॥ [हस्ताहस्ति अहमहमिकया वर्षागमे मेधैः ।
आश्चर्यं किमपि रहस्य छन्नमपि नभोङ्गणं गलति ॥] अहमहमिकया हस्ताहस्ति च वर्षागमेद्य किल मेघैः। हंहो किमपि रहस्यं नभोङ्गणं छन्नमपि गलति ॥ ८०॥ अहं पूर्वमहं पूर्वमिति स्पर्द्धया, हस्तेन हस्तेन च प्रगृह्य, परस्परं मिलितरित्यर्थः । मेघेश्छन्नमपि नभोङ्गणं गलति पतति । यद्धि मेधैाप्तं तत्कथंकारं गलति, अत एव हंहो इत्याश्चर्ये, यदिदं किमपि रहस्यम्। 'गिलति' इति पाठे मेधैः स्थगितमपि विरहिणी मां गिलितुमिव नमो धावतीत्यर्थः स्यात् ।।
बहुनारीणां वल्लभतया सुभगायितस्य दयितस्य अन्यनारीप्रवृत्तिं किमिति न वारयसीति वदन्तीं सखी प्रति काचिदाह
केत्तिअमेत्तं होहिइ सोहग्गं पिअअमस्स भमिरस्स । महिलामअणछुहाउलकडक्खविक्खेवघेपन्तम् ॥ ८१॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org