Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 369
________________ २८४ काव्यमाला। . वनशोभादर्शनेनोत्कण्ठितचित्तायाः प्रियसख्या भाविनी विरहवेदनां संसूच्य प्रावृषि प्रवासं चिकीर्षतो नायकस्य गमनाध्यवसायं निवारयन्ती नायिकासखी आह अहिणवपाउसरसिएसु साँहइ साआइएसु दिअहेसु । रहसपसारिअगीवाण णचि मोरवुन्दाणम् ॥५९ ॥ [अभिनवप्रावृड्रसितेषु शोभते श्यामायितेषु दिवसेषु । रभसप्रसारितग्रीवाणां नृत्यं मयूरवृन्दानाम् ॥] श्यामायितेष्वभिनवप्रावृड्रसितेषु लसति दिवसेषु । नृत्यं रभसोन्नामितशिरोधराणां मयूरवृन्दानाम् ॥ ५९॥ अभिनवानि प्रावृषो रसितानि (मेघगर्जितानि ) येषु तेषु । जलधरस्थगितदिनकरतया श्यामायितेषु श्यामा रजनी तत्सदृशेषु दिवसेषु मयूरवृन्दानां नृत्यं शोभते । विरहिणां कृते रजनी किलानिर्वचनीयदुःखदायिनी, इह तु दिवसा अपि रजनीयन्ते । अत एवंविधे घनरसमये समये न गन्तव्यमिति ध्वन्यते । नवानि प्रावृड्रसितान्याकर्ण्य रभसेन मेघावलोकनार्थ मयूरैीवा उन्नाम्यन्ते, अत एव प्रसारितपदापेक्षया उन्नामितेति सम्यक् । दिवैव संकेतस्थानस्याभिसारयोग्यतां सूचयन्त्या दूत्या इयमुक्तिरिति कश्चित् । 'वनमयूरलसितं संकेतितलतागृहमहं गता त्वं तु न गत इति जारं श्रावयन्ती कुलटा वर्षाप्रशंसामाह' इति गङ्गाधरावतरणम् । महिषशालायां सुरतासक्ता काचित्कामिनो मनोविनोदाय दोषमपि गुणीकुर्वत्याह महिसक्खन्धविलग्गं घोलइ सिङ्गाहअं सिमिसिमन्तम् । आहअवीणाझंकारसद्दमुहलं मसअवुन्दम् ॥ ६०॥ [महिषस्कन्धविलग्नं घूर्णते शृङ्गाहतं सिमसिमायमानम् । __ आहतवीणाझंकारशब्दमुखरं मशकवृन्दम् ॥] महिषस्कन्धविलग्नं शृङ्गहतं सिमसिमायितं भ्रमति । आहतवीणाझङ्कृतिशब्दमुखरितं मशकवृन्दम् ॥ ६०॥ सिमसिमेत्यनुकरणम् । सिमसिमेति शब्दं कुर्वदित्यर्थः । कोणेन आहताया वीणाया यो झंकारशब्दस्तद्वन्मुखरम् । पूर्व शृङ्गे स्थितिः, पश्चाच्छ्रङ्गताडनेन सिमसिमशब्दं कुर्वतां भ्रमणं मशकानां खभावः । अनेन खभावोक्त्यलंकारेण 'वीणाझङ्कारेणेव प्रमोदितमनास्त्वं सुचिरं रमख' इति नायकं प्रति चिररमणाभिलाषो व्यज्यते । निष्कुटकुमुदिनीशोभावर्णनेन प्रियतमाया मनः प्रमोदयन् कश्चिदाह रेहन्ति कुमुअदलणिचलट्ठिआ मत्तमहुअरणिहाआ । ससिअरणीसेसपणासिअस्स गण्ठि व तिमिरस्स ॥ ६१॥ [राजन्ते कुमुददलनिश्चलस्थिता मत्तमधुकरनिकायाः। शशिकरनिःशेषप्रणाशितस्य ग्रन्थय इव तिमिरस्य ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446