Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 367
________________ २८२ काव्यमाला। सद्यःस्नाता श्यामाजी कामयमानः कश्चित् शृण्वन्त्यां तस्यां स्वसहचरमाह पत्तणिअम्वप्फंसा हाणुत्तिण्णाएँ सामलङ्गीए । जलबिन्दुएहिँ चिहुरा रुअन्ति बन्धस्स व भएण ॥ ५५ ॥ [प्राप्तनितम्बस्पर्शाः स्नानोत्तीर्णायाः श्यामलाझ्याः । जलबिन्दुकैश्चिकुरा रुदन्ति बन्धस्येव भयेन ॥] प्राप्तनितम्बस्पर्शाः श्यामाझ्याः स्नानसक्तायाः। बन्धस्येव भयेन हि रुदन्ति जलविन्दुभिश्चिकुराः ॥ ५५ ॥ स्नानसमये पृष्ठे लम्बमानतया सुन्दरीनिबिडनितम्बस्पर्शसुखमवाप्तवन्तः कुन्तलाः स्नानोत्तरं धम्मिलबन्धनेन तत्सुखविलोपशङ्कया प्रस्रवत्स्नानसलिलबिन्दुच्छलेन संप्रति रुदन्तीवेत्यर्थः । तथा च-नैषां बन्धनं भवेत्तथेमे वाञ्छन्ति । अर्थात् मयि सुरतासका सती एतेषां पुनरपि विमुक्ततासुखं संपादयेति निगूढाभिप्रायो व्यज्यते। ग्रामनिकटावस्थितवटान्तिके सुघटान्य भिसारसुखानि विटाय सूचयन्ती रतिरसलम्पटा कुलटा वटानुवर्णनमाह गामङ्गणणिअडिअकलवक्ख वड तुज्झ दूरमणुलग्गो । तित्तिल्लपडिक्खकभोइओ वि गामो ण उविग्गो ॥५६॥ [ग्रामाङ्गणनिगडितकृष्णपक्ष वट तव दूरमनुलग्नः । दौःसाधिकप्रतीक्षकभोगिकोऽपि ग्रामो नोद्विग्नः ॥] अनुलग्नस्ते ग्रामाङ्गणनिगडितकृष्णपक्ष वट दूरम् । दो साधिकप्रतीक्षकभोग्यपि न ग्राम उद्विग्नः ॥५६॥ ग्रामाङ्गणे निगडितः बद्धः [स्ववशे कृत्वा सर्वदा स्थापितः] कृष्णपक्षः [तत्कार्यभूतः अन्धकारः] येन तत्संबुद्धौ । एतादृश हे वट ! तव दूरमनुलग्नः दूरदूरपर्यन्तं त्वच्छायामाश्रितः। दौःसाधिको द्वारपालः प्रतीक्षकः [ग्रामपतिसविधे नयनाय मार्गावेक्षकः ] यस्य तादृशो भोगी भोगासक्तः कामुकजनो यस्मिन्नेतादृशोपि ग्रामो नोद्विग्नः । अनुपलक्षिताभिसारतया राजभयरहितत्वान्न भीति प्राप्त इत्यर्थः । अयं भावः-हे वट ! तव निबिडतमच्छायायां सर्वदा कृष्णपक्षस्येव अन्धकारो भवति । ततश्च त्वदाश्रये अभिसाररताः कामिनो निर्भयं भोगान् भुञ्जते । ग्रामाधिपते रक्षकपुरुषास्तान् निग्रहीतुं प्रतीक्षमाणा एव तिष्ठन्ति परं त्वच्छायान्धकारे न तान् लक्षयितुं प्रभवन्ति । अत एव त्वदनुलग्नोयं ग्रामो नोद्विजते इति । दौःसाधिकस्य प्रतीक्षकाः [इदानी द्वारपाल आयाति, अयमायात इति भयचकितं द्वारपालमार्गावेक्षकाः] भोगिनो यस्मिन्नित्यप्यर्थः संभवति । 'तित्तिल्लो' दौःसाधिकः । 'दौःसाधिको द्वारपालः' इति त्रिकाण्डशेषः । 'तन्तिल्लपडिखरभोइओ वि' इति पाठे तु 'चिन्तापरप्रतिखरभोगिकोपि' इति च्छाया । चिन्तायुक्तः प्रतिखरोऽसहनः भोगी ग्रामभोक्ता अधिकारी यस्य ईदृशो ग्राम इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446