Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 368
________________ ६ शतकम् ] संस्कृतगाथासप्तशती। ततश्च सर्वदा दुष्टदमनचिन्तायां लग्नोऽतितीक्ष्णश्चास्य ग्रामस्य भोक्ता प्रभुरस्ति, तथापि त्वत्प्रसादादयं ग्रामस्थः कुलटाजनो नोद्वेगं प्राप्नोतीत्याशयः। सपत्न्या दुश्चरितं पतिं प्रति सापदेशं सूचयन्ती सपत्नी सोपालम्भमाह सुप्पं डड्डू चणआ ण भजिआ सो जुआ अइकन्तो। अत्ता वि घरे कुविआ भूआण व वाइओ वंसो ॥ ५७॥ [शूर्प दग्धं चणका न भृष्टाः स युवातिक्रान्तः । श्वश्रूरपि गृहे कुपिता भूतानामिव वादितो वंशः ॥] शूर्प दग्धं चणका न भर्जिताः स च युवातिगतः। श्वश्रूहेपि कुपिता भूतानामिव हि वादितो वंशः ॥ ५७ ॥ चणकान् भजयन्त्या अनया अनवधानेन शूर्प दग्धम् , परं चणका न भर्जिताः । यं युवानं द्रष्टुं चणकभर्जनकार्य त्यक्त्वा इयं बहिर्निर्गता सोऽप्यतिक्रान्तः । भूतानां बधिराणामिवाग्रे वंशः (वेणुः ) वादितः । बधिराणामग्रे वंशीवादन मिव गृहकार्यहानि संपादयन्त्या अप्यस्याः सर्वः प्रयासो विफलीभूत इत्याशयः । गृहवस्तुहानि परपुरुषपर्यालोचनप्रयासं च गृहाधिष्ठात्री त्वन्मातापि ज्ञातवती, अत एव कुपितास्ति । ततः पश्यास्या दुश्चरितमिति पतिं प्रति युक्त्या सूचना । सलिलनिमग्नैः प्रियतमैरिमा निगूढमुपगूढा इत्यात्मनः प्रच्छन्नपरिज्ञानपाटवं प्रख्यापयन्नागरिकः सहचरं प्रति कामिनीनां जलकेलिमुपवर्णयति पिसुणेन्ति कामिणीणं जललुक्कपिआवऊहणसुहेल्लिम् । कण्डइअकवोलुप्फुल्लणिञ्चलच्छीइँ वअणाई ॥५८ ॥ [पिशुनयन्ति कामिनीनां जलनिलीनप्रियावगूहनसुखकेलिम् । कण्ट कितकपोलोत्फुल्लनिश्चलाक्षीणि वदनानि ॥] शंसन्ति कामिनीनामम्बुनिलीनप्रियाङ्गसङ्गसुखम् । पुलकितकपोलसंफुल्लनिश्चलाक्षाणि वदनानि ॥ ५८॥ प्रियागस्पर्शेन पुलकिती कपोलौ येषु तानि । तथा हर्षविशेषादुत्फुल्ले ( विकसिते) स्तम्भाख्येन सात्त्विकभावेन निश्चले च अक्षिणी येषु तादृशानि कामिनीनां वदनानि, अम्बुनि निलीनस्य प्रियस्याङ्गसङ्गेन अवगृहनेन यत्सुखं तत्सूचयन्ति । जलनिलीनप्रियपरिरम्भणेन अङ्कुरितकामतया कामिनीनामिति व्यपदेशः। 'निद्भुतमप्यर्थ विदग्धा बुध्यन्ते इति बोधयन्नागरिकः सहचरमाह' इति गङ्गाधरावतरणम् । 'निश्चलाक्षीणि' इति पाठस्तु कदाचन लेखकप्रमाद एव भवेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446