Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 317
________________ २३२ काव्यमाला। पाठः । तथा च-गोष्ठ एवैतावत्कालं भ्रान्तवान् , महिलानां गुणदोषविचारक्षमोद्यापि त्वं न भवसीति पूर्वोक्तोऽर्थः स्फुटीभवति । 'श्रीकृष्णं सौभाग्यगर्विता बल्लवी काचिदाह' इति गङ्गाधरः। अनुनयपराङ्मुखं कान्तं शम्भोः प्रणामापदेशेन सामयिककर्तव्यं बोधयन्ती मानिन्याः सखी आह संझासमए जलपूरिअञ्जलिं विहडिएकवामअरम् । गोरीअ कोसपाणुजअं व पमहादिवं णमह ॥४८॥ [संध्यासमये जलपूरिताञ्जलिं विघटितैकवामकरम् । गौर्यै कोषपानोद्यतमिव प्रमथाधिपं नमत ॥] सन्ध्यासमये जलपूरिताञ्जलिं विघटितैकवामकरम् । गौर्यै हि कोषपानोद्यतमिव नमत प्रमथनाथम् ॥४८॥ सन्ध्यानुष्ठानसमये । जलेन पूरितोञ्जलिर्यस्य तम् किन्तु विघटितैकवामकरम् , विधहितः पृथग्भूतः एको वामः करो यस्य । अर्धनारीश्वरत्वेन वामभागस्थितगौरीकस्यापि सन्ध्यासमये गौरीसम्बन्धी वामः करः पृथग्भूत इत्यर्थः । एकस्मिन् हस्ते आचमनार्थ गृहीतसलिलमिति यावत् । गौर्यै गौर्याः कृते कोषपानरूपं दिव्यं कर्तुमुद्यतमिव प्रमथनाथं शिवं नमत । अन्यस्यां मेऽनुरागो नास्तीति गौर्याः प्रत्ययार्थ सन्ध्याचमनव्याजेन दिव्यमेव करोतीत्यर्थः । तथाच-प्रणयिन्याः प्रसादनार्थं दिव्यमपि कर्तव्यं भवति, ततश्च त्वयापि सेयं शपथप्रणामादिभिरनुनेतव्या, नात्र विप्रतिपत्तव्यमिति नायकं प्रति ध्वन्यते । प्रमथनाथमित्यनेन-सर्वेषां प्रमथानामधिपोपि शम्भुस्तेषामभिमुखं दिव्यकरणे न संकुचति, भवांस्तु प्रणयिन्याः संमुखमनुनयेनैव लज्जत इत्याक्षेप. गर्भ नायकप्रोत्साहनमभिव्यज्यते । कोषदिव्यं तु याज्ञवल्क्यस्मृतौ-देवानुग्रान्समभ्यर्थ्य तत्स्नानोदकमाहरेत् । संसाव्य पाययेत्तस्माजलं तु प्रसृतित्रयम् ॥' नारदस्तु 'पूर्वाह्ने सोपवासस्य स्नातस्यार्द्रपटस्य च । सशूकस्याव्यसनिनः कोषपानं विधीयते ॥' सौभाग्यशालिनी प्रति दयितस्य प्रणयोऽवसानसमयेपि न मन्दीभवतीति सखी नायिका निदर्शयन्त्याह-~ गामणिणो सवासु वि पिआसु अणुमरणगहिअवेसासु । मम्मच्छेएसु वि वल्लहाइ उवरी वलइ दिट्ठी ॥ ४९ ॥ [ग्रामण्याः सर्वास्वपि प्रियास्वनुमरणगृहीतवेषासु । मर्मच्छेदेष्वपि वल्लभाया उपरि वलते दृष्टिः ॥] ग्रामण्यः सकलास्वपि दयितास्वनुमृतिगृहीतवेषासु । दृष्टिवलते मर्मच्छेदेष्वपि वल्लभाभिमुखम् ॥ ४९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446