Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 362
________________ ६ शतकम् ] संस्कृतगाथासप्तशती । २७७ अत एव भ्रमरपदापेक्षया मधुपपदमनुकूलम् । पीतेनाम्रकुसुमेन वह्नः, उपरि भ्रमता श्यामेन भ्रमरकुलेन च उद्गच्छन्त्या धूमशिखायाः साम्यमपि समुचितमासूचितं ग्रन्थकारेण । तथा च-ज्वलन इव सहकारकुसुमं सम्प्रति मां दहेदिति प्रियतमाह्वानार्थमेव यतनीयं न मुधाऽऽश्वासनार्थमिति सखीं प्रति धन्यते । मदनोत्सवे (होलिकोत्सवे) सुरतलुलितवेषां कांचन योषां बहुमन्यमानः कश्चन विदग्धः प्रसाधनपक्षपातिनं सहचरमाह-~ दइअकरग्गहलुलिओ धम्मिल्लो सीहुमन्धि वअणम् । मअणम्मि एत्ति चिअ पसाहणं हरइ तरुणीणम् ॥४४॥ [दयितकरग्रहलुलितो धम्मिल्लः सीधुगन्धितं वदनम् । ___ मदने एतावदेव प्रसाधनं हरति तरुणीनाम् ॥] दयितकरग्रहलुलितो धम्मिल्लः सीधुगन्धितं वदनम् । एतावदेव मदने प्रसाधनं हरति तरुणीनाम् ॥४४॥ मदनोत्सवे एतावदेव तरुणीनां मण्डनं कामिनां मनो हरति । अथवा भदने सति कामोदये सतीत्यर्थः । सुरतानुकूलमेतावदेव मण्डनं मनोहारि, सुरतप्रतिबन्धकैः किमन्यैर्भूषणैरिति भावः । एतावदेवेत्येवकारेण अधारितैरपि हारकेयूरादिभिर्न प्रसाधनत्रुटिः । धारितैरपि कर्णावतंसनासाभूषणादिभिश्च विशिष्य सुरतोपयोगाभावान्न मनोहरणमिति धम्मिल्हाद्योरेव असाधारणभूषणतेत्यतिशयः सूच्यते । अत एव दृढमाबद्धो धम्मिल्लोपि न तस्मिन्समये मनोहारी, प्रत्युत विलुलितप्रायतया निधुवने ग्रहणसुकरः शिथिलबन्धन एवेति दयितकरग्रहलुलितविशेषणेन व्यज्यते। तरुणीनामित्यनेन-नवागता बालाः काममितरद्भरि भूषणं धारयन्तु नाम, पर सुरतरसिकानां प्रमदानां त्विदमेव मण्डनमित्यतिशयः सूच्यते । मण्डनादिस्थाने प्रसाधनपदेन-इदमेव प्रसाधनं सुरते प्रकृटं साधन मिति निरुक्तिः सूच्यते । अत्र गङ्गाधरस्तु-'मदने इति निमित्तसप्तमी वा । मदननिमित्तमित्यर्थः।' इति वाचख्यौ। परं यदि निमित्तसप्तमीपदेन 'निमित्तात्कर्मयोगे' इत्यपि सप्तमी बुध्येत, तद्यपि न गतिः। कर्मणो योगाभावात् । अस्तु। 'किमलकरणेन, शीघ्रं कान्तमभिसर' इति दूतीवचनमिति कश्चित् । परमत्र अभिसारात्पूर्वमेव 'दयितकरग्रहलुलित' इति विशेषणं कष्टात्संगच्छेत । मदनोत्सवे ग्रामयुवत्योपि मनोहारिण्यो भवन्तीति तदुत्सवस्योन्मादकतां साधयन्कश्चित्सहचरमाह गामतरुणीऔं हिअ हरन्ति छेआण थणहरिल्लीओ। मअणे कुसुम्भरजिअकञ्च[इ]आहरणमेत्ताओ॥ ४५ ॥ [ग्रामतरुण्यो हृदयं हरन्ति विदग्धानां स्तनभारवत्यः । मदने कुसुम्भरागयुक्तक काभरणमात्राः ॥] सं.गा. २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446