Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 360
________________ ६ शतकम् ] संस्कृतगाथा सप्तशती । कस्याश्चिचिरप्रोषितपतिकायाः सखी तत्कान्तसविधगामिनं पथिकं प्रति संदिशतिअविहवलक्खणचलअं ठाणं णेन्तो पुणो पुणो गलिअम् । सहिसत्थोचिअ माणंसिणीअ वलआरओ जाओ ।। ३९ ।। [ अविधवालक्षणवलयं स्थानं नयन्पुनः पुनर्गलितम् । सखीसार्थ एव मनस्विन्या वलयकारको जातः ॥ ] स्थानमविधवालक्षणवलयं विनयन्पुनः पुनर्गलितम् । बलकारकः सखीगण एव हि जातो मनखिन्याः ॥ ३९ ॥ विरहदौर्बल्याद् गलितं जीवत्पतिकाया लक्षणभूतं वलयं पुनः पुनः स्वस्थानं नयन्, मनखिन्याः सखीगण एव विरह निर्बलतायामपि बलकारकः आश्वासप्रदानेन बलदायको जातः । अथवा 'वलआरओ' इत्यस्य गलितेपि वलये पुनः पुनर्वल्यदानाद् 'वलयाकरः' जात इत्यर्थः । ' मनखिन्याः' इत्यनेन - सखीगणदत्तसमाश्वासना सा केवलं मनोबलादेव साम्प्रतमात्मानं वारयति, इति सूच्यते । गङ्गाधरस्तु - 'कलहान्तरितया कोपोज्झितभूषणयापि न त्यक्तानि वलयानीति तस्याः सुज्ञतां विरहकृशतां च सूचयन्ती सखी तत्कान्तमाह' इत्यवतरणं विधाय 'वलआरओ' इत्यस्य 'वलयकारकः वलयपरिधापकः' इति व्याख्यामाह । विरहिणीप्रसङ्गे पठिताया अस्याः कलहान्तरिताविषयकत्वं तु स्वल्पकाल एव एतावत्कार्यादिसाधनोपपत्तिकाठिन्येन कष्टकल्पनप्रायमिति मन्मतिः । वर्षासु विरहिणीनां वेदनातिशयं वर्णयन्कश्चिद् गृहगमनाय पथिकं त्वरयितुमाहपहिअवह विवरन्तरगलिअजलोल्ले घरे अणोल्लं पि । उद्देसं अविरअवाहसलिलणिवण उल्लेइ ॥ ४० ॥ [पथिक वधूर्विवरान्तरगलितजलाई गृहेऽनार्द्रमपि । उद्देशम विरतबाष्प सलिलनिवहेनार्द्रयति ॥ ] पथिकवधूर्विवरान्तरगलितजलाई गृहेऽप्यनार्द्रमहो । उद्देशमाईयति पतद विरतबाप्पाम्बुनिवहेन ॥ ४० ॥ जीर्णस्य तृणगृहच्छदिषश्छिद्रान्तराद् गलितेन जलेना । अनार्द्रमपि उद्देशं स्थानम् अनवरतं पतता बाष्प सलिलेनार्द्रयति । विवरात्पतता जलेन दुःखिता शुष्के स्थाने स्थित्वापि प्रियस्मरणोत्कण्ठावशान्निरन्तरपतदश्रुतया तदपि स्थानमाई करोतीत्यर्थः । 'वधू' पदेन नवयौवनात्वं गुरुजनलज्जावशाद् गृहान्तः स्थितिसापेक्षत्वं च सूचितम् | जीर्णगृहवर्णनात् - दुर्वद्ददारिद्र्याक्रान्तापि त्वत्प्रेमैकजीवना नाद्यापि मनोऽन्यत्र नयति, तत्त्वरितमिमां संभावयेति तद्दयितं प्रति सूच्यते । २७५ कलहान्तरिताया दूती तत्कान्तमनुनयार्थ प्रोत्साहयन्ती कुलीनप्रशंसाप्रसङ्गेनाह— जीहाइ कुणन्ति पिअं भवन्ति हिअअम्मि णिव्बुई काउम् । पीडिञ्जन्ता विरसं जणन्ति उच्छू कुलीणा अ ॥ ४१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446