Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 364
________________ ६ शतकम् ] संस्कृतगाथा सप्तशती । विविधविला सैरालिङ्गनचुम्बनादिभिरुपलक्षितम् । करणैर्विपरीतोत्तानकतिर्यगुत्थितकाद्यासनबन्धैः कामशास्त्रकथितैः शोभितम् । तरुणी च तरुणश्च तरुणौ तयोः सुरतं दृष्ट्वा । पुमानस्त्रियेत्येकशेषः । गतमपि तैलं न लक्षयतीत्यनेन - सुरतोत्सवे भूयान्विलम्बो जात इति व्यज्यते । दीपोपीत्यपिपदेन अचेतनो दीपोपि यत्र स्पृहयालुरिव तदेकतानो भवति, तत्र मादृशो भुक्तभोगो जनः कथं कौतुकाद्विरमेदत एव तद्गतचित्ततयः विलम्बोऽभवदिति भावः । उद्भटसुरतरसिकां कामपि कामिनीमुत्कण्ठयितुं सुरतकाले पूर्वानुभूतां कामिनः कामशास्त्रकुशलतामन्यापदेशेन काचिदाह पुणरुचकरप्फालणउहअतडुल्लिहणवडूणसआई । जूहाहिवस्स माए पुणो वि जह णम्मआ सहइ ॥ ४८ ॥ [ पुनरुक्त करास्फालनोभयतटोल्लिखनपीडनशतानि । यूथाधिपस्य मातः पुनरपि यदि नर्मदा सहते ॥ ] पुनरुक्त करास्फालनतटद्वयोलिखनपीडनशतानि । यूथाधिपस्य मातः पुनरपि यदि नर्मदा सहते ॥ ४८ ॥ पुनरुक्तं पुनः पुनर्यत्करेण गुण्डादण्डेन हस्तेन चास्फालनं जलादौ पृष्ठादौ च । तद्वयस्य कूलद्वयस्य नितम्बद्वयस्य च दन्तद्वयेनोत्खननं नखैर्विलेखनं च । पीडनं जलपूरस्यावरोधनं निर्भरालिङ्गनं च एतदादीनां शतानि । यूथाधिपस्य गजपुङ्गवस्य गोष्ठीनायकस्य च, अर्थात्तत्कृतानि करास्फालनादीनि । नर्मदा नदी, नर्म सुरतसुखं ददातीति योगात्कामकलानुकूला नायिका च । यदि पुनरपि सहते, तदा तान्युपस्थितानीतिः शेषः । आश्चर्यसूचनार्थं मातरिति संबोधनं लोके प्रसिद्धम् । अथवा - 'कान्तसमीपं गच्छ' इति वदन्तीं सखीं प्रति नायिकायाः सेयमुक्तिः । सुरतदुर्मदस्य तस्य स्तनतटनखक्षतो रस्ताडननिर्भरालिङ्गनादीनि यदि सहेय तर्हि पुनरपि गच्छेयमिति साकूतं तस्या उत्तरमिति भावः । उल्लिखनमिति 'गाङ्कुटादिभ्य' इति सूत्रे कुटस्य आदिः कुटादिरिति समासेन लिखधातोरपि संग्रहाद् गुणनिषेधेन । w पूर्वसंकेतितं कार्पासी क्षेत्रमगत्वा संप्रति गृह एव स्वच्छन्दमागन्तव्यमिति जारं सूचयन्ती स्वयंदूतिका सोद्वेगमाह वोडणओ विअण्णो अत्ता मत्ता पई वि अण्णत्थो । फलिहं व मोडिअं महिसएण को तस्स साहेउ ॥ ४९ ॥ [ दुष्टनको विपन्नः श्वश्रूत्ता पतिरप्यन्यस्थः । कार्पास्यपि भग्ना महिषकेण कस्तस्य कथयतु ॥ ] दुष्टनको विपन्नः श्वश्रूत्ता पतिः किलान्यस्थः । कार्पास्यपि परिभग्ना महिषेण हि वदतु कस्तस्य ॥ ४९ ॥ Jain Education International २७९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446