Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 363
________________ २७८ काव्यमाला | ग्रामतरुण्यो हृदयं हरन्ति धनकुचभरा विदग्धानाम् । मदने कुसुम्भरञ्जितकञ्चुलिका मात्रमण्डनाः सपदि ॥ ४५ ॥ घनकुचभराः निबिडस्तनभारवत्यः । प्राकृते पूर्वनिपातनियमाभावात् 'कशुकमात्राभरणाः' इत्यस्य स्थाने ‘कञ्चुकाभरणमात्रा:' इति प्रयुक्तम् । विदग्धानामित्यनेन - मार्मिका एव सुन्दरीणां लावण्यपरीक्षकास्तदितरे तु गतानुगतिका एवेति व्यज्यते । कञ्जलिका - मात्रेत्यनेन लावण्ये न मण्डनापेक्षेति सूच्यते । हृदयं हरन्तीत्यनेन - रत्नाभूषणादिभिनैत्रमात्रमाहियते न तत्त्वज्ञानां मानसमिति द्योत्यते । मदनोत्सवे एतादृश्यो ग्रामतरुण्योपि हृदयहारिण्यो भवन्ति किं पुनरलङ्कृताः पौरसुन्दर्य इति तदुत्सवस्य निसर्गतो मादकता ध्वन्यते । त्रयोदश्यां कामदेवपूजामदनोत्सवे सेयमुदाहृता स० कण्ठाभरणे (५ परि.) 1 प्रथममेव प्रवासार्थं प्रस्थितस्य नवप्रवासिनः प्रियाविप्रयोगात्प्रवृत्तां पीडां प्रस्तुवन् कश्वित्प्रवास प्रतिषेधार्थमाह--- आलोअन्त दिसाओ ससन्त जम्भन्त गन्त रोअन्त । मुच्छन्त पडन्त खलन्त पहिअ किं ते पउत्थेण ॥ ४६ ॥ [ आलोकयन्दिशः श्वसञ्जुम्भमाण गायन्रुदन् । मूर्छन्पतन्स्खलन्पथिक किं ते प्रवसितेन ॥ ] पश्यन्दिशः श्वसन्किल गायन्विरुदंश्च जृम्भमाण मुहुः । मूर्च्छन्स्खलन्विनिपतन्पथिक नु किं ते प्रवासेन ॥ ४६ ॥ विरहचकितत्वाद्दिशोऽवलोकयन्, प्रेयसीस्मरणाच्छ्सन्, दुःखविनोदाय गायन, तदुत्कण्ठावशात्रुदन्, मदनायासेन मुहुर्नृम्भमाण, प्रियतमैकान्तचित्तत्वान्मूर्च्छादिविकारान्प्रावन हे पथिक ते प्रवासेन किं फलम् ? यतः साम्प्रतमेव ते सेयं दशा, तर्हि विदेशस्थित का ते दशा भाविनीति को जानीते । तस्मान्निवर्तस्वेति भावः । एवं च प्रवासः प्रियैकान्तचित्तानां दुःखायैवेति सूच्यते । सख्या रहोवृत्तमनुसंधातुं गता कथमेतावद्विलम्बेनागतासीति सख्या पृष्टा सखी तामाह— दहूण तरुणसुरअं विविहविलासेहिँ करणसोहिल्लम् । दीओ वि तग्गअमणो गअं पि तेल्लं ण लक्खेइ ॥ ४७ ॥ [दृष्ट्वा तरुणसुरतं विविधविलासैः करणशोभितम् । दीपोऽपि तद्वतमना गतमपि तैलं न लक्षयति ॥ ] संदृश्य तरुणसुरतं विविधविलासैश्च करणपरिलसितम् । दीपोपि तद्गतमना गतमपि तैलं न लक्षयति ॥ ४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446