Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 328
________________ ५ शतकम् ] संस्कृतगाथासप्तशती। [भन्यासामपि भवन्ति मुखे पक्ष्मलधवलानि दीर्घकृष्णानि । नयनानि सुन्दरीणां तथापि खलु द्रष्टुं न जानन्ति ॥] सन्ति मुखेऽन्यासामपि पक्ष्मलधवलानि दीर्घकृष्णानि । नयनानि सुन्दरीणाम् , तदपि द्रष्टुं न जानन्ति ॥ ७० ॥ इतोऽन्यासामपि सुन्दरीणां मुखे पक्ष्मलत्वादिगुणविशिष्टानि नयनानि यद्यपि सन्ति तथापि तानि नयनानि दर्शनचातुर्य न जानन्ति । इयमेव कटाक्षवीक्षणे प्रगल्भेत्याशयः। सहजा अपि नयन गुणा भ्रूविलासादि वैदग्ध्यं विना विफलीभूता इति भावः । किञ्च द्रष्टुं न जानन्तीत्यनेन-अन्याः सुन्दर्यो दीर्घाभ्यामपि नयनाभ्यां न सम्यक् पश्यन्ति, या अगुणज्ञेषु अन्येषु जनेष्वनुरज्यन्ति । परम् मत्प्रस्तुता सेयं नायिकैव द्रष्टुं जानाति, या भवन्तं सकृद् दृष्ट्वैव परिचितवती । ततश्च-सहजस्नेहा सेयं नायिका त्वरितमनुसर्तव्येति नायकं प्रत्यभिव्यज्यते। गाथाकोषनिर्मापकस्य शालिवाहननरेन्द्रस्य ग्रन्थान्तःपतितां स्तुतिमभिव्यनक्तिहंसेहिँ व तुह रणजलअसमअभअचलिअविहलवक्खेहि । परिसेसिअपोम्मासेहिँ माणसं गम्मइ रिऊहिं ॥ ७१ ॥ हिंसैरिव तव रणजलदसमयभयचलितविह्वलपक्षः । परिशेषितपद्माशैर्मानसं गम्यते रिपुभिः ॥] तव रणजलदसमयभयचलविह्वलपक्षकैरनुस्त्रियते। परिशेषितपद्माशैर्हसैरिव मानसं रिपुभिः ॥७१॥ रण एव जलदसमयस्तद्भयाच्चञ्चलाः अत एव विह्वलाः पक्षाः सहायाः येषां तैः। परिशेषिता पद्मायाः (लक्ष्म्याः ) आशा यैः। ईदृशैः रिपुभिहसैरिव तव मानसं (मनः) अनुस्रियते अनुवृत्यते । विजिताः शत्रवस्त्वां त्वन्मनोनुसारं सेवन्ते इत्याशयः । हंसरपि-रण-(स्तनित)-युक्तानां जलदानां समये भयाच्चला विह्वलाः कम्पमानाश्व पक्षाश्छदा येषां तैः, परिशेषिता पद्मानां कमलानाम् आशा यैः (वर्षासु कमलानां विलोपात् ), ईदृशैः सद्भिर्मानससरोवरमनुगम्यते । रणयुक्ता जलदाः रणजलदा इति मध्यमपदलो. पिसमासः । प्राकृते तु रणज्जलदा इत्यप्यों भवति । हंसैरिवेत्युपमया-वैरिणोपि तव शौर्यप्रतापाद्विवशं निरस्तकल्मषबुद्धयस्त्वां सेवन्ते, किमन्ये सुहृत्-सूरिप्रभृतय इति सर्वोपसेव्यत्वेन महाप्रभावत्वं राज्ञो व्यज्यते । “दण्डयात्रोद्यतस्य राज्ञः प्रतिषेधाय राजस्तुतिव्याजेन वर्षाकालं राज्ञी वर्णयति' इति गङ्गाधरटीकावतरणम् । दुर्गतेपि दयिते नितान्तमनुरक्तासौ धनवैभवादिना न साध्येति दूती कस्याश्चित्सुचरितमाह दुग्गअघरम्मि घरिणी रक्खन्ती आउलत्तणं पइणो। पुच्छिअदोहलसद्धा पुणो वि उअअं विअ कहेइ ॥ ७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446