________________
५ शतकम् ] संस्कृतगाथासप्तशती।
[भन्यासामपि भवन्ति मुखे पक्ष्मलधवलानि दीर्घकृष्णानि ।
नयनानि सुन्दरीणां तथापि खलु द्रष्टुं न जानन्ति ॥] सन्ति मुखेऽन्यासामपि पक्ष्मलधवलानि दीर्घकृष्णानि ।
नयनानि सुन्दरीणाम् , तदपि द्रष्टुं न जानन्ति ॥ ७० ॥ इतोऽन्यासामपि सुन्दरीणां मुखे पक्ष्मलत्वादिगुणविशिष्टानि नयनानि यद्यपि सन्ति तथापि तानि नयनानि दर्शनचातुर्य न जानन्ति । इयमेव कटाक्षवीक्षणे प्रगल्भेत्याशयः। सहजा अपि नयन गुणा भ्रूविलासादि वैदग्ध्यं विना विफलीभूता इति भावः । किञ्च द्रष्टुं न जानन्तीत्यनेन-अन्याः सुन्दर्यो दीर्घाभ्यामपि नयनाभ्यां न सम्यक् पश्यन्ति, या अगुणज्ञेषु अन्येषु जनेष्वनुरज्यन्ति । परम् मत्प्रस्तुता सेयं नायिकैव द्रष्टुं जानाति, या भवन्तं सकृद् दृष्ट्वैव परिचितवती । ततश्च-सहजस्नेहा सेयं नायिका त्वरितमनुसर्तव्येति नायकं प्रत्यभिव्यज्यते। गाथाकोषनिर्मापकस्य शालिवाहननरेन्द्रस्य ग्रन्थान्तःपतितां स्तुतिमभिव्यनक्तिहंसेहिँ व तुह रणजलअसमअभअचलिअविहलवक्खेहि । परिसेसिअपोम्मासेहिँ माणसं गम्मइ रिऊहिं ॥ ७१ ॥ हिंसैरिव तव रणजलदसमयभयचलितविह्वलपक्षः ।
परिशेषितपद्माशैर्मानसं गम्यते रिपुभिः ॥] तव रणजलदसमयभयचलविह्वलपक्षकैरनुस्त्रियते।
परिशेषितपद्माशैर्हसैरिव मानसं रिपुभिः ॥७१॥ रण एव जलदसमयस्तद्भयाच्चञ्चलाः अत एव विह्वलाः पक्षाः सहायाः येषां तैः। परिशेषिता पद्मायाः (लक्ष्म्याः ) आशा यैः। ईदृशैः रिपुभिहसैरिव तव मानसं (मनः) अनुस्रियते अनुवृत्यते । विजिताः शत्रवस्त्वां त्वन्मनोनुसारं सेवन्ते इत्याशयः । हंसरपि-रण-(स्तनित)-युक्तानां जलदानां समये भयाच्चला विह्वलाः कम्पमानाश्व पक्षाश्छदा येषां तैः, परिशेषिता पद्मानां कमलानाम् आशा यैः (वर्षासु कमलानां विलोपात् ), ईदृशैः सद्भिर्मानससरोवरमनुगम्यते । रणयुक्ता जलदाः रणजलदा इति मध्यमपदलो. पिसमासः । प्राकृते तु रणज्जलदा इत्यप्यों भवति । हंसैरिवेत्युपमया-वैरिणोपि तव शौर्यप्रतापाद्विवशं निरस्तकल्मषबुद्धयस्त्वां सेवन्ते, किमन्ये सुहृत्-सूरिप्रभृतय इति सर्वोपसेव्यत्वेन महाप्रभावत्वं राज्ञो व्यज्यते । “दण्डयात्रोद्यतस्य राज्ञः प्रतिषेधाय राजस्तुतिव्याजेन वर्षाकालं राज्ञी वर्णयति' इति गङ्गाधरटीकावतरणम् ।
दुर्गतेपि दयिते नितान्तमनुरक्तासौ धनवैभवादिना न साध्येति दूती कस्याश्चित्सुचरितमाह
दुग्गअघरम्मि घरिणी रक्खन्ती आउलत्तणं पइणो। पुच्छिअदोहलसद्धा पुणो वि उअअं विअ कहेइ ॥ ७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org