________________
२४२
काव्यमाला।
भीषणजनावस्थितां काञ्चिदधमा नायिका कामयमानं कञ्चन निवर्तयन्ती दूती अन्यापदेशेनाह
णिकण्ड दुरारोहं पुत्तअ मा पाडलिं समारुहसु ।
आरूढणिवडिआ के इमीअ ण कआ हआसाए ॥६८॥ . [निष्काण्डदुरारोहां पुत्रक मा पाटलिं समारोह ।
__ आरूढनिपतिताः के अनया न कृता हताशया ॥] निष्काण्डदुरारोहां पुत्रक मा पाटलि समारोह ।
आरूढनिपतिताः के न कृता अनया हताशया हन्त ॥ ६८॥ काण्डं वृक्षस्कन्धोऽवसरश्च । तथा च-स्कन्धरहिताम् अत एव दुःखेनारोहणीयां पाटलिम् (वृक्षम् ) मा आरोह । अनया बहवो जनाः आरूढा एव निपतिताः कृता इति वाच्योर्थः । भीषणजनरक्षितत्वाद् अनवसराम् अत एव दुःखकरसमागमां तां नायिकां नाभिसर, अनया बहवो जना निष्फलमेव निन्दाभाजनं कृता इति कामुकं प्रति व्यङ्ग्योऽर्थः । पुत्रकेत्यामन्त्रणेन खस्य विश्वसनीयत्वं व्यज्यते। हताशयेत्यनेनत्वन्मनोरथानुवर्तिन्यप्यहम् तस्या अवसराभावात् आशां विहतां भावयामीति सूच्यते । ग्रामनायकवनितासक्तः पुत्रो निवार्यतामिति दाक्षिण्येन सूचयन्ती काचिच्वश्रूमाह
गामणिधरम्मि अत्ता एक विअ पाडला इह ग्गामे । बहुपाडलं च सीसं दिअरस्स ण सुन्दरं एअम् ॥ ६९ ॥ [ग्रामणिगृहे श्वश्रु एकैव पाटला इह मामे ।
बहुपाटलं च शीर्ष देवरस्य न सुन्दरमेतत् ॥ ] एकैव पाटलास्मिन् ग्रामे ग्रामणिगृहे किल श्वश्रु ।
बहुपाटलं च शीर्ष न सुन्दरं देवरस्यैतत् ॥ ६९ ॥ संपूर्णेऽस्मिन्ग्रामे ग्रामनायकस्य गृहे एकैव पाटला (वृक्षः ) अस्ति । देवरस्य मस्तकं च बहूनि पाटलापुष्पाणि यस्मिंस्तादृशमस्ति एतत्सुन्दरं नेत्यर्थः । अनुरकया ग्रामणीगृहिण्या पाटलापुष्पाणि दत्तानि, यानि तद्वहुमानादनेन शीर्षे मण्डितानीत्याशयः। ग्रामणीपदेन-ग्रामस्य स नायक इत्यनुपसर्पणीयात्तद्गृहाद्दुर्लभानि तानि पुष्पाण्युपायान्तरेणालभ्यानीति सूच्यते । तथा च-चिरैरनुमाय भयापवादजनकोयं देवरस्य ग्रामणीगृहाभिसारो निरोद्धव्य इति श्वश्रू प्रत्यभिव्यज्यते ।
कस्याश्चित्कटाक्षदाक्षिण्यं सहजानुरागं च संप्रकाश्य नायकं प्रलोभयन्ती दूती सुमधुरमाह
अण्णाण वि होन्ति मुहे पम्हलधवलाई दीहकसणाई । णअणाइँ सुन्दरीणं तह वि हु दटुं ण जाणन्ति ।। ७० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org