________________
५ शतकम् ]
संस्कृतगाथासप्तशती ।
२४१
वञ्चितासीत्येतत्पदेन - पूर्वं दत्तशिक्षापि प्रत्यक्षं त्वमधुना मानपरित्यागस्य दुष्फलमनुभवसीति निजवक्तव्ये बलमभिसूच्यते । मुग्धे इत्यामन्त्रणेन - स्वसुखमवधीरयन्ती साम्प्रतमपि त्वं मुग्धैवासीत्युपालम्भः सूच्यते । सुखानामित्यादौ चतुर्थ्यर्थे षष्ठीति तु गङ्गाधरोक्तिर्विचारणीयैव ।
मानवत सुदतीमनुनयन्नायक आह
दे अणु पसिअ एहिं पुणो वि सुलहाइँ रूसिअव्वाई । एसा मअच्छि मअलञ्छणुञ्जला गलइ छणराई ॥ ६६ ॥ [ हे सुतनु प्रसीदेदानीं पुनरपि सुलभानि रोषितव्यानि । एषा मृगाक्षि मृगलाञ्छनोज्ज्वला गलति क्षणरात्रिः ॥ ] सुतनु प्रसीद सम्प्रति पुनरपि सुलभानि रोषितव्यानि । उत्सवरजनी सेयं मृगाक्षि मृगलाच्छनोज्वला गलति ॥ ६६ ॥ रोषितव्यानि रोषाः । रोषाः पुनरपि सहजमेव कर्तुं शक्याः परम् अकस्मादेव मृगलाञ्छनेन ( चन्द्रेण ) उज्वला इयमनिर्वचनीयमनोहरा क्षणरात्रिरुत्सवरात्रिर्न पुनः प्राप्येत्याशयः । व्यत्येतीत्यादिस्थाने गलतीत्युक्त्या - हस्तगतापि निरर्थकं व्यतिगच्छतीति व्यज्यते । त्वं मृगाक्षीति मृगसंबन्धवशान्मृगलाञ्छनस्यानुरोधोऽवश्यं परिपाल्य इति मृगाक्षीत्यामन्त्रणेन सूच्यते । 'छणराई' इति मूलपदाङ्कानुरोधे तु 'क्षणरजनी बत सैषा' इति पाठ्यम् । कुत्रचित् 'दे सुअणु' इति स्थाने 'दे सुहअ' इति पाठः । तत्र पूर्वार्धे नायकम्, उत्तरार्धे नायिकां चेति अन्योन्यगृहीतमानौ द्वावप्यामन्त्र्य दूती प्रतिबोधयतीति व्याख्येयम् ।
ग्रन्थान्तः पतितां गाथाकोषकारस्य प्रशंसां नैपुण्येनाहआवण्णाइँ कुलाई दो बिअ जाणन्ति उष्णई उम् । गोरीअ हिअअदइओ अहवा सालाहणणरिन्दो ॥ ६७ ॥
[ आपन्नानि कुलानि द्वावेव जानीत उन्नतेिं नेतुम् । गौर्या हृदयदयितोऽथवा शालिवाहननरेन्द्रः ॥ ] आपन्नानि कुलानि द्वावेव हि विदतुरुन्नतिं नेतुम् । गौर्याश्व हृदयदयितोऽथ शालिवाहननरेन्द्रश्च ॥ ६७ ॥ 'आवण्णाई' इति प्राकृतस्य 'आपर्णानि ' ' आपन्नानि' इत्युभयमप्यर्थः । ततश्च - अपर्णा पार्वती, तत्सम्बन्धीनि कुलानि उन्नतिं गमयितुं गौरीदयितो जानाति । पन्ना आपद्भस्तानि कुलान्युन्नमयितुं च शालिवाहननरेन्द्रो जानातीत्यर्थः । 'कामार्तायास्तस्याः प्रतीकारं कर्तुं त्वमेव शक्त इत्यन्यापदेशेन दूती कमप्याह इति गङ्गाधरावतरणम् । एवंविधेषु पद्येषु 'अमृतं प्राकृतकाव्यम्' इति प्रतिज्ञावशाद्वलेन शृङ्गारार्थकल्पनमिति पूर्वमुक्तमेव मया ।
सं. गा. २१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org