________________
२४०
काव्यमाला |
सपत्नीचरणलाक्षालाञ्छितकरं दयितं खण्डिता साकूतमाह - संवाहण सुरसतोसिएण देन्तेण तुह करे लक्खम् । चलणेण विकमाइत्तचरिअ अणुसिक्खिअं तिस्सा ॥ ६४ ॥
[ संवाहन सुखरसतोषितेन ददता तव करे लाक्षाम् । चरणेन विक्रमादित्यचरितमनुशिक्षितं तस्याः ॥ ] ददता संवाहनसुखरससंतुष्टेन तब करे लाक्षाम् । विक्रमनरेन्द्रचरितं चरणेन हि शिक्षितं तस्याः ॥ ६४ ॥ त्वत्कृतसंवाहनस्य सुखरसात् संतुष्टेन अत एव तत्परिवर्ते तव करे निजनिष्टां लाक्षाम् ( अलक्तकम्) ददता संक्रामयता तस्याश्चरणेन विक्रमादित्यस्य चरितं शिक्षितम् । सपत्नीपदसंवाहनेन त्वत्करे तस्या लाक्षा संक्रान्ता, तदिदं मया ज्ञातमिति साकूतं सूचयति । विक्रमादित्योपि 'संवाहणस्स' संबाधनस्य सुखात्संतुष्टः सन् भृत्यस्य करे ‘लक्खं' लक्षं ददाति । भृत्यकर्तृकेन शत्रुसंबाधनेन तुष्टो विक्रमादित्यो भृत्यस्य करे लक्षं समर्पितवानिति तच्चरिते श्रूयते । प्राकृते संवाहणं संबाधनम् लक्खं लक्षम् । सुखोत्तरं रसपदसंनिवेशेन-लया तथा संवाहनं कृतं यथा तत्सुखेन स्पर्शामोदजनितस्तस्य भूयानानन्दो जातः । एवं च - सपत्नीमनोनुकूलानुवर्तनेन सानुरागत्वं सूचितम् । संतुष्टपदेन संवाहनसेवायाः पूर्णता सूचिता । अत एव प्रसादसूचिका लाक्षा पुरस्काररूपेण प्राप्तेति सपत्न्याः साभिलाषानुवर्तनीयत्वमाक्षिप्यते । चरणेन विक्रमनरेन्द्रवदाचरितमित्यनेन - ' त्वं तां तथा सभयमनुवर्तसे यथा सा आत्मनि राजवदुपसेव्यत्वमभिमन्यते' इत्याक्षेपो ध्वन्यते । एवं च त्वदनुवर्तनं कुर्वतीं मां विहाय तस्याः सभयानुवर्तनं त्वं बहु मन्यसे अत एव पादसंवाहनसेवया संतोष्य लाक्षानुरञ्जनमवाप्नोषीति साकूतमु - पालम्भो ध्वन्यते ।
अनुनयं विनैव परित्यक्तमानां सखीं शिक्षयितुं मानस्य सुखकारकतां काचित्समर्थयते—
पाअपडणाएँ मुद्धे रहसबलामोडिचुम्बिअव्वाणम् । दंसणमेतपसणे चुक्कासि सुहाणं बहुआणम् ॥ ६५ ॥ [ पादपतनानां मुग्धे रभसबलात्कारचुम्बितव्यानाम् । दर्शनमात्र प्रसन्ने भ्रष्टासि सुखानां बहुकानाम् ॥ ]
मुग्धे पदपतनानां रभसबलात्कारचुम्बितव्यानाम् । अवलोकमात्रतुष्टे ! बहुलसुखानां हि वञ्चितैषासि ॥ ६५ ॥ दयितस्यावलोकनमात्रेण प्रसन्ने हे सुग्धे ! अनुनयनिमित्तानां पादपतनानाम्, रभसेन ( वेगेन ) बलात्कारेण च चुम्बनानाम् एतदादीनां बहुलसुखानाम् एषा त्वं वञ्चि तासि । पञ्चम्यर्थे षष्ठी । पादपतनादिभ्यो बहुभ्यः सुखेभ्यो भ्रष्टासीत्यर्थः । एषा त्वं
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org