________________
५ शतकम् ] संस्कृतगाथासप्तशती।
२३९ कुञ्ज संकेतस्थाने अविनयस्य दत्तं ध्वजमिव रतिरससंभ्रमेण शिप्रं नवरङ्गकं कौसुम्भवस्त्रं पश्य । 'जारप्रलोभनाय दूती कस्याश्चिद्रतलंपटतामाह' इति गङ्गाधरः।
कस्याश्चिदनुरागातिशयं प्रकाश्य तदभियोगाय नायकं त्वरयन्ती वृद्धा दूती सापदेशमाह
हत्थप्फंसेण जरग्गवी वि पलहइ दोहअगुणेण । अवलोअणपढुइरि पुत्तअ पुण्णेहिँ पाविहिसि ॥ ६२ ॥ [हस्तस्पर्शन जरद्व्यपि प्रस्नौति दोहदगुणेन ।
अवलोकनप्रस्रवनशीला पुत्रक पुण्यैः प्राप्स्यसि ॥] प्रस्नौति जरगव्यपि हस्तस्पर्शन दोहकगुणेभ्यः ।
अवलोकप्रनवनीं पुत्रक पुण्यैरवाप्स्यसि क्वापि ॥ ६२॥ दोहकस्य गुणेभ्यः दोहकगुणहेतुवशात् तस्य हस्तस्पर्शेन जरती गौरपि प्रस्नुतपयोधरा भवति । अवलोकनमात्रेण प्रस्नवनशीलां पुण्यैरेव कुत्रापि प्राप्स्यसि । इयं तव गुणाऽश्रवणेपि केवलमवलोकनादेव त्वय्यनुरक्ताऽभवदिति भवद्भाग्यवैभवेन खभावतोनुरागिणी सेयं त्वरितमेव संभावनीयेति व्यज्यते । 'पुत्रक' इत्यामन्त्रणेन-कृतभूर्यनुभवा त्वां विश्रम्भवशाबोधयामीति विश्वसनीयत्वं द्योत्यते । गुणेभ्य इति हेतौ तृतीया । बहुत्वेन हस्तमार्दव-अङ्गुष्ठपर्वनिष्पीडनपाटवादिगुणबाहुल्यं द्योत्यते । मूलानुसरणाग्रहे तु 'दोहदगुणेन' इति पाठो बोध्यः।
मन्दं चलन्ती काञ्चित्सुन्दरी वीक्ष्य उक्तिप्रत्युक्तिकया नागरिको सपरिहासमात्माभिलाषप्रकाशनमुपक्रमाते
मसिणं चङ्कम्मन्ती पए पए कुणइ कीस मुहभङ्गम् । णूणं से मेहलिआ जहणगअं छिवइ णहवन्तिम् ॥ ६३ ॥ [महणं चक्रम्यमाणा पदे पदे करोति किमिति मुखभङ्गम् ।
नूनं तस्या मेखलिका जघनगतां स्पृशति नखपतिम् ॥] मसृणमपि चङ्गमन्ती पदे पदे किमिति वहति मुखभङ्गम् ।
नूनं मेखलिकास्या जघनगतां स्पृशति नखपतिम् ॥ ६३॥ . मसृणमपि चकमन्ती मन्दमपि पादन्यासं कुर्वती । चङ्गमन्तीति यङ्लुगन्ताच्छतृप्रत्ययः । मुखभङ्गं मुखविकारम् । पद्यपूर्वार्धमेकस्य प्रश्नः, उत्तरं तूत्तरम् । मेखलिकेति खल्पार्थे कन् । तेन च तनुमेखलास्पर्शेपि जघनगतनखरक्षतेषु पीडोदयात्तेषां सान्द्रत्वमाईत्वं च सूच्यते । ततश्च-सबाह्योपचारं सकौशलोत्साहं च मुरतमासेवमानायास्ते खल्प एव कालोतीत इति ज्ञातमस्माभिः । किमेवमस्मास्वपि दयिष्यस इत्यभिलाषप्रकाशनं चरमं व्यङ्ग्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org