________________
२३८
काव्यमाला।
मदनपटो मधूच्छिष्टम् तस्य द्रवीकरणस्य व्याजेन । दयितदंशनेन व्रणिते अधरे ॥
सुरते वस्त्रविमो कादिषु सुभृशं विप्रतिपद्यमानां नवीनां कांचिन्नायकप्रेरिता सखी शिक्षयति
रइविरमलजिआओ अप्पत्तणिअंसणाओँ सहस व्व । ढक्कन्ति पिअअमालिङ्गणेण जहणं कुलवहूओ ॥ ५९॥
[रतित्रिरामलजिता अप्राप्तनिवसनाः सहसैव । __ आच्छादयन्ति प्रियतमालिङ्गनेन जघनं कुलवध्वः ॥] सुरतविरामविलक्षा अनाप्तवसनाश्च सहसैव।
आच्छादयन्ति जघनं प्रियतमपरिरम्भणेन कुलवध्वः ॥ ५९॥ पूर्व रसाविष्टतया अजानन्त्योपि सुरतविरामे लजिताः, ततश्च सहसैव न प्राप्त निवसनं याभिस्ताः । आच्छादयन्तीत्यनेन लजातिशयसूचकं येन केनापि प्रकारेण गोपनं व्यज्यते।
अत्युग्रस्वभावं बहासक्तमपि दयितं वशीकृतवत्याः सपत्न्याः सौभाग्यं काचिदन्यापदेशेन सासूयमाह
पाअडिअं सोहग्गं तम्बाए उअह गोट्ठमन्झम्मि । दुहवसहस्स सिङ्गे अक्खिउडं कण्डुअन्तीए ॥६०॥ [प्रकटितं सौभाग्यं गवा पश्यत गोष्ठमध्ये ।
दुष्टवृषभस्य शृङ्गे अक्षिपुटं कण्डूयन्त्या ॥] प्रकटितमतिसौभाग्यं पश्यत गोष्ठे गवा ह्यनया।
दुष्टवृषभस्य शृङ्गे कण्डूयन्त्या नयनपुटम् ॥ ६०॥ 'गोष्ठे'पदेन नारीमण्डलेपि सत्यनयैव वशीकृत इति संसक्तबहुनारीकोयमिति ध्वन्यते । 'गवा अनया' इत्यनेन 'उपरितो मुग्धायितयापि अनया एतादृशोपि विषमशीलोयं वशीकृत इति साकूतं व्यज्यते। दुष्टवृषभस्येत्यनेन-नवोढासक्ततया आत्मानं परित्यक्तवन्तं नायकं प्रति असूया व्यज्यते। अतितीक्ष्णे शृङ्गे अतिसुरक्षणीयस्य नयनपुटस्य कण्डूयनोक्त्या अतिरहस्यप्रविष्टतया स्नेहाधिक्यं व्यज्यते । प्राकृते 'तम्बा' गौः । 'कापि कस्याश्चिम भाग्यमन्यापदेशेनाह' इति गङ्गाधरः। कस्याश्चित्सुरतरसलम्पटतां नागरिकः सहचरमाह
उह संभमविक्खित्तं रमिअव्वअलेहलाएँ असईए । णवरङ्गअं कुडङ्गे ध व दिण्णं अविणअस्स ॥ ६१ ॥ [पश्य संभ्रमविक्षिप्तं रन्तव्यकलम्पटया असत्या ।
नबरङ्गकं कुजे ध्वजमिव दत्तमविनयस्य ॥] रतिरसलम्पटया किल पश्य कुलटयात्र संभ्रमक्षिप्तम् । नवरङ्ग निकुळे ध्वजमिव दत्तं ह्यविनयस्य ॥ ६१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org