SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ५ शतकम् ] संस्कृतगाथासप्तशती। २३७ मूले 'दे'शब्दः संबोधने । हे हलिकसुत ! नवलतिका करे गृहीतवतस्तव इयं पुरतो धावति परितः तव पार्श्वयोर्धमति, किञ्च ताडनभयान तिरोदधाति प्रत्युत तव दृष्टिपथे तिष्ठत्यपि । अत एव वराकी कामं प्रहर । त्वत्प्रेमवशात्प्रहारमपि प्रतीच्छन्त्या अस्यास्त्वदनुगायास्ताडनं नोचितमिति वराकीपदेन ध्वन्यते । हलिकसुतेत्यनेन कैशोर्य सूच्यते । कामं प्रहरेत्यनेन-इयं त्वय्यनुरक्ता, अस्माभिरपि चेदमभ्यूहितमिदानी यथेच्छं प्रहरेति साकूतं सूच्यते । प्रियतमनाम पृच्छद्भिर्नवपलाशादिलतया यत्र प्रियो जनो हन्यते साक्रीडा चूतलतिकेति सरखतीकण्ठाभरणे भोजः। यद्वा-नवलताकुजं संकेतस्थानं त्वं गतो न त्वियमिति कृतापराधामेनां प्रहरेति सोपहासं कुट्टनीवचनमिदमिति गङ्गाधरः। नायिका कौमार्य एवोपभुक्तवन्तं कञ्चन विलासिनं पतिसदनेप्यभिसरन्तं वीक्ष्य तद्त्तान्तं निजवयस्याय कश्चिन्निदर्शयति कारिममाणन्दवडं भामिजन्तं बहूअ सहिआहिं। पेच्छइ कुमारिजारो हासुम्मिस्सेहिँ अच्छीहिं ॥ ५७ ॥ . [कृत्रिममानन्दपटं भ्राम्यमाणं वध्वा सखीभिः । प्रेक्षते कुमारीजारो हासोन्मिश्राभ्यामक्षिभ्याम् ॥] कृत्रिममानन्दपटं भ्रामितमभितो वधूवयस्याभिः। हासोन्मिश्रितनयनं निरीक्षते किल कुमारिकाजारः॥५७ ॥ आनन्दपटः प्रथमप्रथमं वरेण संगताया वध्वा वस्त्रम् । प्रथमसंगमे लग्नलोहितं वधूवत्रं वरसंबन्धिनीभिर्महिलाभिलॊकेषु प्रदर्यत इति देश विशेषे आचारः । ततश्चजारसंगमेन पूर्वमेव दृष्टशोणितत्वात्संप्रति अयथार्थत्वात्कृत्रिममानन्दपटं वध्वाः रहस्यभुक्ताभिः सखीभिरभितो भ्राम्यमाणं हासोन्मिश्राभ्यां नयनाभ्यां स जारः प्रेक्षत इत्यर्थः। अन्यस्य पराक्रमेपि अन्यकृतिं प्रख्याप्य अनवसरं संभ्रमदर्शनमिति जारस्य हास इत्याशयः । 'कृत्रिमं सर्वमुपहासास्पदं भवतीति निदर्शयन्कश्चित्वस्य वैदग्ध्यख्यापनाय सहचरमाह' इत्यवतरणम् , 'आनन्दपटः प्रथमपुष्पवतीवस्त्रम् । प्रथमरजोद. र्शने जाते तदनं बन्धुभिलॊकेषु प्रदर्यत इति देशविशेषे आचारः । जारसंबन्धदृष्टशोणिताया अस्थानं संभ्रमदर्शनेन जारस्य हासः' इति गङ्गाधरकृतं तद्विवरणं च । शिशिरसमये अधरोष्णिना मधूच्छिष्टं लापयन्ती तरुणीं वीक्ष्य कश्चिदात्मनो वैदग्ध्यप्रदर्शनाय सहचरमाह सणि सणि ललिअङ्गलीअ मअणवडलाअणमिसेण । बन्धेइ धवलवणवट्ट व वणिआहरे तरुणी ॥ ५८ ॥ [शनकैः शनकैर्ललिताङ्गुल्या मदनपटलापनमिषेण । बनाति धवलवणपट्टमिव व्रणिताधरे तरुणी ॥] शनकैः शनकैललिताङ्गल्या मदनपटलापनमिषेण । व्रणिताधरे हि तरुणी धवलव्रणपट्टमिव निबध्नाति ॥ ५८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy