________________
काव्यमाला ।
[रतिकेलिहृतनिवसनकरकिसलयरुद्धनयनयुगलस्य ।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥] रतिसंभ्रमहृतनिवसनकरकिसलयरुद्धनयनयुगलस्य ।
शम्भोस्तृतीयनयनं गिरिजापरिचुम्वितं जयति ॥ ५५ ॥ रतिसंभ्रमे रतिकेलौ हृतं निवसनम् ( अर्थात्पार्वत्याः) येन स च, अवसनां मां मा द्राक्षीदिति लज्जावशात्पार्वत्या करकिसलयेन रुद्धं पिहितं नयनयुगलं यस्य स चेति बहुव्रीहिद्वयगर्भः कर्मधारयः । ईदृशस्य शम्भोस्तृतीयनयनं जयति सर्वोत्कर्षेण वर्तते । शम्भो₹ नयने पार्वत्या द्वाभ्यां कराभ्यामाच्छादिते, पुनर्ललाटस्थं तृतीयलोचनं तु चुम्बनेन पिहितमिति लोचनद्वयस्थगनापेक्षया तृतीयलोचनस्यैव स्थगनं मनोहारि संपन्नमिति लोचनद्वयापेक्षया तृतीयमेव जयतीति भावः। अत्र शोभते इत्याद्यनुपादाय जयतीत्येतद्घटक'जि'धातुरूपप्रकृतिभागेन-पिधानव्यापारसाम्येपि द्वयोर्नयनयोः पिधानं सर्वत्र पिधानकार्ये उपात्ताभ्यां कराभ्यां विहितमस्य तु पिधानोपकरणतया कुत्रचिदप्यप्रसिद्धेन अत एव अलौकिकपदवाच्येन चुम्बनेन कृतमिति तस्यैव सर्वोत्कर्ष इति धन्यजीवितत्वं सर्वाङ्गनेतृभूतनेत्रमध्येपि श्रेष्ठतमत्वं च ध्वन्यत इति काव्यप्रकाशकारः । तथा च-भगवती गिरिराजनन्दिन्यपि दयितमनःप्रसादसंपादनार्थ प्रणयपरिपाकपरिनिष्ठितानि रसिकचेष्टितानि निधुवनकर्मणि सावधानमनुरुन्धे, ततोस्मादृशीभिस्त्ववश्यमेव सर्वावस्थासु रसमार्गमञ्जुलतैवाश्रयणीयेति सखी प्रत्यभिव्यज्यते । अत्र गाथायाम्-रतौ रसावेशवशात्संजातो यः संभ्रमस्तद्वशात्पार्वत्या वसनमपनीतमिति शम्भोः कामावेगलोलतां ध्वनयितुं संभ्रमपदमुपात्तम् । यदि तु मूलपदाङ्कानुसरण एवाग्रहस्तर्हि-“रतिकेल्यपहतनिवसन." इत्यादि पाठ्यम् । मूलकारस्य रुद्रपदं तु-लोकत्रितयसंहारज्वलितनेत्रज्वलनस्य भगवतो भर्गस्य भैरवतास्मारकं गिरीन्द्रनन्दिनीनिधुवनकेलिसमये सुतरामनुपयोगि, प्रत्युत रसमार्गविरोधीति शम्भुपदेन (शं रतानुकूल्यरूपं सुखं भावयतीति) परिवर्तितमिति तयोस्तारतम्यं सुधीभिरेवाकलनीयम् । पार्वती-गिरिजापदे तु समानार्थके एवेति न काचिद्विप्रतिपत्तिरित्यलमधिकसूक्ष्म विचारचर्चया।
क्रीडाभ्यन्तरे नवपलाशलतया ताडयतो हलिककिशोरस्य प्रहारान्सव्यपदेशमिच्छन्त्याः कस्याश्चिदनुरागं तं प्रति सूचयनागरिक आह
धावइ पुरओ पासेसु भमइ दिट्ठीपहम्मि संठाइ । णवलइकरस्स तुह हलिअउत्त दे पहरसु वराइम् ॥ ५६ ॥ [धावति पुरतः पार्श्वयोर्धमति दृष्टिपथे संतिष्ठते ।
नवलतिकाकरस्य तव हलिकपुत्र हे प्रहरस्व वराकीम् ॥] धावति पुरतः परितो भ्राम्यति तिष्ठति च दृक्पथेपीयम् । तव नवलताकरस्य प्रहर वराकी नु हलिकसुत कामम् ॥ १६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org