________________
५ शतकम् ] संस्कृतगाथासप्तशती । वदन्त्या नायिकाया औन्मुग्ध्यं सूच्यते । करस्थिता एवेत्यनेन-विरहकार्यवशाद्धस्ताद् गलन्तोपि मया सौभाग्यचिह्नबहुमानेन कर एव स्थापिता न कथञ्चिदपि हस्ताबहिः कृतास्तथा च नायिकाया विरहकार्यातिशयः प्रियेऽनुरागबहुमानश्च सूच्यते। अपरिचितवाग्वैदग्ध्याया मुग्धायाः 'सद्भावात्पृच्छामः, केनचिदाकूतेन सेयं पृच्छतीति न मन्तव्यम्' इत्यादिवचनरचनाजुपपत्त्या मुग्धा प्रोषितपतिका न शक्ष्या । यदि तु तदिदमपि खाभाविकं तर्हि अस्तु सा। करस्थितानां वलयानां वृद्धिकारणाभावेपि वृद्धिवर्णनाद्विभावना । पर्यन्ततस्तु-कार्यरूपेणानुभावेन प्रियतमालम्बनाया रतेः परिपोष इति रसध्वनिरेव ।
विषमदशामापन्नं स्वामिनमुपेक्ष्य परपुरुषाभिमुखी खसखी निवारयितुं काचिदन्यापदेशविधयाह
भमइ पलित्तइ जूरइ उक्विविउं से करं पसारेइ । करिणो पङ्कक्खुत्तस्स णेहणिअलाइआ करिणी ॥ ५४॥ [भ्रमति परितः खिधते उत्क्षेप्तुं तस्य करं प्रसारयति ।
करिणः पक्कनिमनस्य नेहनिगडिता करिणी ॥] भ्राम्यति परितः खिद्यत उत्क्षेप्नुं चास्य करमथोन्नयते ।
करिणः स्नेहनिगडिता पङ्कनिमग्नस्य करिणीयम् ॥ ५४॥ पङ्कनिममस्य करिणः स्नेहनिगडिता करिणी । परितो भ्राम्यति, एकस्मिन्पार्श्वे दयित. स्योद्धारार्थमवकाशमलभमाना, अपरपार्श्वे भवेदवकाश इत्याशया चतुर्दिग्भ्रमतीत्यर्थः । अनेन दयितोद्धारार्थमावेगातिशयो व्यज्यते । परितो भ्रमणेनाप्युपायमलभमाना विवशा सती खिद्यते । खेदेपि दयितं संमुखे दुःखाकुलमालोक्य नोपायेभ्यो विरामः, अत एवं प्रेमविह्वला सती अस्योत्क्षेप्तुम् इममुद्धर्तुं करमुन्नयते स्वशुण्डामूर्ध्वं प्रसारयति । पङ्कनिमअस्य तस्योद्धारार्थमात्मनोऽसमर्थत्वेपि शुण्डोत्क्षेपणेन सर्वात्मना दयितगतचित्तत्वममिव्यज्यते। स्नेहनिगडितेत्यत्र निगडितपदेन-पङ्कनिमग्नं वल्लभं विहाय यथान्ये यूथान्तर्भुकाः करिणो गतास्तथेयमपि अयास्यत्परं स्नेहेन सेयं निगडितेति पारवश्यातिशयः सूच्यते । तथा च-पशवोपि प्रियतमप्रेमाणमेवमनुरुन्धन्ति यदाप्राणपातं तं न परित्यजन्ति प्रयतन्ते चास्य सुखोपलब्ध्यै । ततश्च-पूर्वमनुभूतपतिप्रणयसौभाग्यायास्तव विषमदशायामेतं प्रति वैमुख्यं पशुभ्योपि हीनतासूचकमित्याकूतविशेषो ध्वन्यते ।
सलज्जावस्थायामपि प्रियतमप्रणयोन्मादाय चतुरमहिलाः स्नेहाभिव्यक्तिवैदग्ध्यं न विस्मरन्तीति सखीं शिक्षयन्ती काचित्पावत्या रहोवृत्तान्तं निदर्शयति
रइकेलिहिअणिअंसणकरकिसलअरुद्धणअणजुअलस्स । रुद्दस तइअणअणं पवइपरिउम्बिअंजअइ ॥ ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org