________________
२४४
काव्यमाला।
[दुर्गतगृहे गृहिणी रक्षन्ती आकुलत्वं पत्युः।
पृष्टदोहदश्रद्धा पुनरप्युदकमेव कथयति ॥] दुर्गतगेहे गृहिणी रक्षन्ती पत्युराकुलीभावम् ।
अपि पृष्टदोहदेयं कथयति पुनरप्युदकमेव ॥ ७२॥ पृष्टो दोहदः (गर्भिण्यवस्थासंबन्धी अभिलाषः ) यस्याः ईदृशीयं गृहिणी पत्युयाकुलत्वं रक्षन्ती सती पुनरपि प्रश्ने उदकमेव कथयति । दुर्लभवस्तुप्रार्थनायां दीनोसो व्याकुलो भविष्यतीति विचार्य वारंवारं पृष्टापि उदकमेव प्रार्थयते इत्यर्थः। गृहिणीपदेन-सैव गृहस्य स्वामिनी, ततश्च गृहदारियं सम्यग् विजानातीति सूच्यते । दुर्गतस्य गृहिणीत्यनुक्त्वा दुर्गतगेहे गृहिणीत्यनेन-संपूर्ण गृहमेव दुर्गतिग्रस्तमित्यतिशयो व्यज्यते । 'अनायाससाध्यमेव प्रार्थनीयमिति सखीं शिक्षयन्ती-काचिदाह' इति गङ्गाधरः।
ग्रीष्मापराह्ने स्नातवतीनां युवतीनां कामिजनमनोहारिणी काचित्सुषमेति नागरिकः सहचरमाह
आअम्बलोअणाणं ओलंसुअपाअडोरुजहणाणम् । अवरह्नमजिरीणं कए ण कामो वहइ चावम् ॥ ७३ ॥ [आताम्रलोचनानामाद्रांशुकप्रकटोरुजघनानाम् ।
अपराह्नमज्जनशीलानां कृते न कामो वहति चापम् ॥] आताम्रलोचनानामा शुकलक्षितोरुजघनानाम् ।
अपरालमजिनीनां कृते न कामो धनुर्वहति ॥ ७३ ॥ __ सद्यः स्नानाद् ईषदरुणनयनानाम् , आर्द्राशुके लक्षितम् (प्रकटम् ) ऊरुजघनं यासां ईदृशीनामपराह्नस्नानशीलानां महिलानां कृते कामो धनुर्न धारयति । ताः स्वयमेव कामिनां मनः क्षोभयितुमलम्, न तदर्थं कामचापस्यापेक्षेत्याशयः । मन्जिनीति ताच्छील्ये णिनिः। ततश्च-प्रतिदिनं सायाह्ने स्नानं यासां खभाव इत्युक्त्या स्वाभाविकी शृङ्गाररुचिः सूच्यते । गङ्गाधरस्त्वत्र विचित्रमेवाह-'ईदृगवस्थानां युवतीनां रक्षणार्थमेव कामश्चापं वहति । अन्यथा निरर्थकत्वात्त्यक्तमेव स्यादिति भावः' । सोयमर्थः 'कृतेन' इति तृतीयान्तपाठे कथंचित्संगतः स्यात्परं सरस्वतीकण्ठाभरणादिषु (५ परिच्छेदः) नायं पाठः संमन्यते । यदि स्यात्तदापि-'ईदृगवस्थानां युवतीनां कृतेन, एवंविधयुवतीनामर्थ एव कामो धनुर्वहति । यद्येवंविधा युवतयो न भवेयुस्तर्हि कामिसंमोहनस्य विषयाभावात्का नाम धनुधूननस्यापेक्षेत्याशयः कल्पनीयः। वारवधूनां व्यामोहकतां वर्णयन्कोपि वयस्यमाह
के उवरिआ के इह ण खण्डिआ के ण लुत्तगुरुविहवा । णहराइं वेसिणिओ गणणारेहा उव वहन्ति ॥ ७४॥ [के उर्वरिताः के इह न खण्डिताः के न लुप्तगुरुविभवाः । नखराणि वेश्या गणनारेखा इव वहन्ति ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.brg: