________________
संस्कृतगाथासप्तशती ।
उर्वरिताः के, के वा न खण्डिताः, के न लुप्तगुरुविभवाः । नखराणि वेशयोषा गणनारेखा इव वहन्ति ॥ ७४ ॥
५ शतकम् ]
के उर्वरिताः विमोहनादवशिष्टाः, अनाकृष्टा इति यावत् । के वा न खण्डिताः केषां वा व्रतखण्डनं न कृतमित्यर्थः । के वा लुप्तो गुरुर्विभवः ( धनसंपत्तिः ) येषामीदृशा न कृता इति गणनारेखा इव नखराणि कामुकदत्तनखक्षतानि वेश्या धारयन्तीत्यर्थः । यद्वा-'णहराई' नखराजिम् । नखक्षतपङ्किमित्यर्थः । कामुकदत्तनखक्षतपङ्क्तिव्याजेन के उर्वरिता इत्यादिगणना रेखा वहन्तीति भावः । के के खण्डिताः, के के वा लुप्तविभवा इत्यादिविधिमुखेन गणनामकृत्वा निषेधमुखेन गणनायास्तात्पर्यं तु संमोहनसामर्थ्यातिशयात् वशीकृतानां कामिनां गणना तु विस्तारवशाद्दुः संभवा । गणनायामपि वशीकृतस्यैकस्य कामिनो गणनार्थमेकस्या नखक्षतरेखाया आवश्यकतया तावन्नखक्षतरेखानामवकाश एव न स्यात् । अत एव अवशीकृतानामेव गणनार्थं रेखाकल्पनमिति । ततश्च चातुर्योपभोग्यतया दृश्यमानविरलनखक्षतत्वाद्विरला एवं तासां चकात्सुरक्षिता इति व्यज्यते । किंवा सर्वं जगदेव वेश्या वशीकर्तुं कामयन्ते, अत एव ये मोहितास्तदर्थं गणनारेखाया नावश्यकता, किं तु ये नाकृष्टास्वद्गुणनमेवावश्यकमिति तासां वशीकरणातिशयः सूच्यते । नखक्षतानां गणनीयतावर्णनेन तानि स्पष्टं दृश्यन्त इति सूच्यते । तथा च-स्तन-कपोलादीनां प्रकटप्रदर्शनेन कामिमोहनहेतुको वेश्या स्वभावो व्यज्यते । प्रवासादागतं दयितं प्रति निजानुभूतं विरहदुःखं सवैदग्ध्यमावेदयति काचित्विरहेण मन्दरेण व हिअअं दुद्धोअहिं व महिऊण । उम्मूलिआइँ अब अम्हं रअणाइँ व सुहाई ॥ ७५ ॥
[विरहेण मन्दरेणेव हृदयं दुग्धोदधिमिव मथित्वा । उन्मूलितानि कष्टमस्माकं रत्नानीव सुखानि ॥ ]
हृदयं दुग्धोदधिमिव विमध्य विरहेण मन्दरेणेव । उन्मूलितानि कष्टं रत्नानीवेह नः सुखानि किल ॥ ७५ ॥
२४५
दुग्धोदधिपदेन हृदयस्य निर्मलता सुखरूपरत्नानामाकरता चाभिव्यज्यते । उदधिपदेन गभीरता च सूच्यते । ततश्च सहनशीलतयैव मम हृदयं सर्वामपि वेदनां विसोढवदिति ध्वन्यते । मन्दरो यथा मूलपर्यन्तं प्रविश्य समुद्रं मथितवाँस्तथा विरहो मम हृदयान्तस्तलमुन्मथितवानिति द्योत्यते । रत्नानीव अतिस्पृहणीयानि नः सुखानि मूलादुत्खातानीति कष्टम् । 'अव्वो' इति कष्टसूचकमव्ययम् । 'अव्वो संबुद्धिदुःखयो:' इति देशीकोषः । अनया च समुद्रमथनोपमया - 'समुद्राद्यानि रत्नानि निर्गतानि न तानि पुनः परावृत्तानि, तथा त्वद्विरहे यानि सुखान्यन्तर्हितानि न तानि पुनर्लभ्यानि, ततश्च ना 'विरहदुःखमनुभावनीयम्' इति प्रियं प्रत्यभिव्यज्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org