________________
२४६
- काव्यमाला। प्रियतमस्य सर्वदा मनोनुकूलमेव केलौ वर्तितव्यमित्युपदिशन्ती सखी प्रति पत्युवैदग्थ्यमीp च काचिदेवमाह
उज्जुअरए ण तूसइ वक्कम्मि वि आअमं विअप्पेइ ।
एत्थ अहवाएँ मए पिए पिअं कहँ णु काअवम् ॥ ७६ ॥ . [ऋजुकरते न तुष्यति वक्रेऽप्यागमं विकल्पयति ।।
अन्नाभव्यया मया प्रिये प्रियं कथं नु कर्तव्यम् ॥] ... ऋजुकरतेपि न तुष्यति वक्रेपि तदागमं विकल्पयति ।
अत्र मया विधिहतया प्रिये प्रियं कथम कर्तव्यम् ॥ ७६ ॥ ऋजुके रते हावभावादिरहिते रते । वके हावभावमणितसीत्कृतदन्तक्षतनखक्षतचुम्बनासनविशेषादियुक्त । कुतोऽनया शिक्षितमिति तादृशरतस्यागमम् (प्राप्तिम् ) विकल्पयति संदिह्यति । अत्र एतादृशे (रतिविदग्धे संदेहशीले च) प्रियतमे प्रियं कथं नाम कर्तव्यम् ? ततश्च प्रियस्य प्रियकरणविषये अहमेव अभव्येति भावः। आगमम्' इत्यस्य स्थाने 'आशयम्' इति क्वचित्पाठः । तत्र आशयं स्वमनोभावं परिवर्तयतीति तात्पर्य संगमनीयं स्यात् । नायिकाया रतिचातुर्यदर्शनेन अन्यथाभावशङ्किनं नायकं प्रति सखी काचिदाह
बहुविहविलासरसिए सुरए महिलाण को उवज्झाओ। सिक्खइ असिक्खिाइँ वि सनो णेहाणुबन्धेण ॥ ७७ ॥ [बहुविधविलासरसिके सुरते महिलानां क उपाध्यायः ।
शिक्ष्यते अशिक्षितान्यपि सर्वः स्नेहानुबन्धेन] बहुविधविलासरसिके सुरते का शिक्षकोस्ति महिलानाम् ।
स्नेहानुबन्धगन्धादशिक्षितान्यपि हि शिक्षते सर्वः ॥ ७७ ॥ बहुविधेषु विलासेषु रसिके सुरते। सुरतस्यैव विलासरसिकेति विशेषणात्-सुरतमेव निसर्गतो नानाविधमदनविलासानां रसानुवर्तीत्यर्थः । ततश्च एतस्य क उपाध्यायो भवेत् ? स्नेहानुबन्धस्य गन्धादपि लेशादपि ( किं पुनः पूर्णप्रकर्षात् ! ) सर्वो जनः अशिक्षितान्यपि कौशलानि शिक्षते । प्रेमवशात्स्वयमेव कामकलाकौशलमनुवर्तत इत्याशयः । __नायकस्यासाधारणसुन्दरतां संसाध्य काञ्चन नायिकां तेन संघटयितुमिच्छन्ती दूती अरोचयितुमाह
वण्णवसिए विअथसि सचं विअ सो तुए ण संभविओ। ण हु होन्ति तम्मि दिढे सुत्थावत्थाइँ अङ्गाई ॥७८॥ [वर्णवशिते विकस्थसे सत्यमेव स त्वया न संभावितः । न खलु भवन्ति तस्मिन्दृष्टे स्वस्थावस्थान्यङ्गानि ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org