Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 339
________________ २५४ : काव्यमाला। लिता एव किन्तु सौभाग्यचिह्नमिति कृत्वा प्रत्येकहस्ते एकैको वलयो रक्षितः-' इति दौर्बल्यातिशयो व्यज्यते । रोदितेत्यनेन-अतिकोपापि सा केवलं मार्दवमेव न गता प्रत्युत विद्रुतहृदयापि जातेति स्नुषाया दयनीयत्वातिशयो व्यज्यते । ततश्च-एवंविधा सा दयनीया जाता यत्सर्वदा कोपकुटिलस्यापि जनस्य मनसि तां वीक्ष्य दया जाता, तत्किं दयितंमन्यो भवानेव तां म्रियमाणामुपेक्षिष्यते? इति प्रियतमं प्रति ध्वन्यते । प्रवासोद्यतं दयितं बहिर्गमनान्निवारयन्ती काचिद्रीष्मातपस्य दुःसहतां वर्णयति रोवन्ति छ अरण्णे दूसहरइकिरणफंससंतत्ता। अइतारझिल्लिविरुएहिं पाअवा गिम्हमज्झते ॥ ९४ ॥ . [रुदन्तीवारण्ये दुःसहरविकिरणस्पर्शसंतमाः। __ अतितारझिल्लीविरुतैः पादपा ग्रीष्ममध्याह्ने ॥] विरुदन्तीवारण्ये दुःसहरविरश्मिसंतप्ताः । अतितारझिल्लिविरुतैर्महीरुहो ग्रीष्ममध्याह्ने ॥ ९४॥ सूर्यातपसंतापाद्दुःखिता वृक्षा अपि अतितारैः झिल्लीनां ('झींगुर') शब्दैः रुदन्ति इव । अरण्ये इत्यनेन अरण्यस्थानामपि यदेयं दशा तदा नागरिकस्य ते का दशा स्यादिति सूच्यते। वृक्षा रुदन्तीत्यनेन-अचेतना अपि एवमवस्थाः संजाताः पुनश्चेतनानां तु भृशमेव भयमिति व्यज्यते। किञ्च गमनसमये रुदतां दर्शनेन अशकुनभयात्प्रवासरोधे तात्पर्य व्यज्यते । 'यद्वा संकेतवनोपगतं लोकागमं शङ्कमानं कान्तं प्रत्यभिसारिकाया इयमुक्तिः । नायं जनचरणसंचरणचलितपत्रध्वनिः, किं तु झिल्लीध्वनिरिति निःशङ्करमस्वेति भावः' इति गङ्गाधरः। संकेतितस्य तस्य सरसः कमलवनमहं गता, न त्वं तत्र दृष्ट इति नायकं श्रावयन्ती काचित्सखीमाह पढमणिलीणमहुरमहुलोहल्लालिउलबद्धझंकारम् । अहिमअरकिरणणिउरम्बचुम्बिअं दलइ कमलवणम् ॥ ९५॥ [प्रथमनिलीनमधुरमधुलुब्धालिकुलबद्धझंकारम् । ___ अहिमकरकिरणनिकुरम्बचुम्बितं दलति कमलवनम् ॥] प्रथमनिलीनमधुरमधुलुब्धालिकुलोनिबद्धझङ्कारम् ।। अहिमकरकिरणनिकुराभिचुम्बितं दलति कमलवनम् ॥ ९५॥ प्रथमं निलीनेन मधुरमधुलुब्धेन अलिकुलेन उत् (उच्चैः) निबद्धो झङ्कारो यस्मिन् तत्, अहिमकरस्य सूर्यस्य किरणनिकरेण अभिचुम्बितं सर्वतः परामृष्टम् । दलति विकसति । सुप्तस्य राज्ञः प्रबोधनाय वैतालिकस्येदं वचनमिति केचित् । 'सान्ध्यो विधिरनुष्ठीयताम् , सुरभयो मुच्यन्ताम् , विक्रेयवस्तूनि प्रसार्यन्ताम् , नास्तीदानीं पिशाचादि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446