________________
२५४
: काव्यमाला।
लिता एव किन्तु सौभाग्यचिह्नमिति कृत्वा प्रत्येकहस्ते एकैको वलयो रक्षितः-' इति दौर्बल्यातिशयो व्यज्यते । रोदितेत्यनेन-अतिकोपापि सा केवलं मार्दवमेव न गता प्रत्युत विद्रुतहृदयापि जातेति स्नुषाया दयनीयत्वातिशयो व्यज्यते । ततश्च-एवंविधा सा दयनीया जाता यत्सर्वदा कोपकुटिलस्यापि जनस्य मनसि तां वीक्ष्य दया जाता, तत्किं दयितंमन्यो भवानेव तां म्रियमाणामुपेक्षिष्यते? इति प्रियतमं प्रति ध्वन्यते । प्रवासोद्यतं दयितं बहिर्गमनान्निवारयन्ती काचिद्रीष्मातपस्य दुःसहतां वर्णयति
रोवन्ति छ अरण्णे दूसहरइकिरणफंससंतत्ता। अइतारझिल्लिविरुएहिं पाअवा गिम्हमज्झते ॥ ९४ ॥ . [रुदन्तीवारण्ये दुःसहरविकिरणस्पर्शसंतमाः। __ अतितारझिल्लीविरुतैः पादपा ग्रीष्ममध्याह्ने ॥] विरुदन्तीवारण्ये दुःसहरविरश्मिसंतप्ताः ।
अतितारझिल्लिविरुतैर्महीरुहो ग्रीष्ममध्याह्ने ॥ ९४॥ सूर्यातपसंतापाद्दुःखिता वृक्षा अपि अतितारैः झिल्लीनां ('झींगुर') शब्दैः रुदन्ति इव । अरण्ये इत्यनेन अरण्यस्थानामपि यदेयं दशा तदा नागरिकस्य ते का दशा स्यादिति सूच्यते। वृक्षा रुदन्तीत्यनेन-अचेतना अपि एवमवस्थाः संजाताः पुनश्चेतनानां तु भृशमेव भयमिति व्यज्यते। किञ्च गमनसमये रुदतां दर्शनेन अशकुनभयात्प्रवासरोधे तात्पर्य व्यज्यते । 'यद्वा संकेतवनोपगतं लोकागमं शङ्कमानं कान्तं प्रत्यभिसारिकाया इयमुक्तिः । नायं जनचरणसंचरणचलितपत्रध्वनिः, किं तु झिल्लीध्वनिरिति निःशङ्करमस्वेति भावः' इति गङ्गाधरः।
संकेतितस्य तस्य सरसः कमलवनमहं गता, न त्वं तत्र दृष्ट इति नायकं श्रावयन्ती काचित्सखीमाह
पढमणिलीणमहुरमहुलोहल्लालिउलबद्धझंकारम् । अहिमअरकिरणणिउरम्बचुम्बिअं दलइ कमलवणम् ॥ ९५॥
[प्रथमनिलीनमधुरमधुलुब्धालिकुलबद्धझंकारम् । ___ अहिमकरकिरणनिकुरम्बचुम्बितं दलति कमलवनम् ॥] प्रथमनिलीनमधुरमधुलुब्धालिकुलोनिबद्धझङ्कारम् ।।
अहिमकरकिरणनिकुराभिचुम्बितं दलति कमलवनम् ॥ ९५॥ प्रथमं निलीनेन मधुरमधुलुब्धेन अलिकुलेन उत् (उच्चैः) निबद्धो झङ्कारो यस्मिन् तत्, अहिमकरस्य सूर्यस्य किरणनिकरेण अभिचुम्बितं सर्वतः परामृष्टम् । दलति विकसति । सुप्तस्य राज्ञः प्रबोधनाय वैतालिकस्येदं वचनमिति केचित् । 'सान्ध्यो विधिरनुष्ठीयताम् , सुरभयो मुच्यन्ताम् , विक्रेयवस्तूनि प्रसार्यन्ताम् , नास्तीदानीं पिशाचादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org