________________
५ शतकम् ]
संस्कृतगाथासप्तशती ।
न्यते तथेदानीमपि । तथा च-जलाभेदरूपणेन ज्योत्स्नायाः सान्द्रत्वसूचनात्पर्यन्ततः प्रकाशातिशयो ध्वन्यते ।
नायकमुत्कण्ठयितुं नायिकानुरागं सूचयन्ती दूती आह
सुन्दरजुआणजणसंकुले वि तुह दंसणं विभग्गन्ती । रण व भ्रमइ दिट्टी वराइआए समुबिग्गा ।। ९२ ॥ [ सुन्दरयुवजनसंकुलेऽपि तव दर्शनं विमार्गयन्ती । अरण्य इव भ्रमति दृष्टिर्वराकिकायाः समुद्विग्ना ॥ ] सुन्दरनवयुवजनसंकुलेपि तब दर्शनं विमार्गन्ती । भ्रमति विपिन इव दृष्टिर्वराकिकायाः समुद्विग्ना ॥ ९२ ॥ सुन्दरैर्नवयुवकजनैः संभृतेपि स्थाने केवलं तव दर्शनं वाञ्छन्ती तस्या वराक्या दृष्टिः अरण्य इव शून्य इव उद्विग्ना सती भ्रमति । त्वां विहाय अन्ये सर्वेपि नवयुवकास्तस्य दृष्टौ नोपगच्छन्ति, अत एव उद्विग्ना सती अरण्यमिव शून्यं तत्स्थानं पश्यतीलाशयः । अरण्यपदेन भयजनकत्वं सूच्यते । रूपशालिनोपि नवयुवानस्तस्या दृष्टौ न रोचन्ते, ततश्च त्वदेकमात्रचित्ता सा नोपेक्षणीयेति व्यज्यते । वराकिकेत्यत्र कन् दयनीयत्वं सूचयति । यदा तस्या दृष्टिस्त्वदर्शनार्थं विकला भ्रमति तदा करुणा आयातीत्यर्थः । अथवा, एवमेकान्तानुरक्तचित्तापि सा तवोपेक्षापात्रमस्तीति सा दीनैवेत्याशयः । तव दर्शनं विमार्गन्तीत्यनेन तव दर्शनं तत्कृते अन्वेषणीयमिति दुर्लभत्वं द्योत्यते । भ्रमतीत्यनेन - त्वामदृष्ट्वापि सा न निश्चेष्टा तिष्ठति, किन्तु त्वद्दर्शनार्थं विकला आहिण्डत इत्यनुरागातिशयो ध्वन्यते । 'अणुव्विण्णा' इति पाठे त्वद्दर्शन कौतुकात् अनुद्विना, अगणित खेदेत्यर्थः ।
२५३
प्रोषित पतिकाया विरहवैकल्यं तत्प्रियतमसमीपगामिने पान्थाय सखी संदिशतिअकोणा व सासू रुआविआ गअवईअ सोह्राए । पाअपडणोष्णआए दोसु वि गलिएसु वलएसु ॥ ९३ ॥ [ अतिकोपनापि श्वश्रू रोदिता गतपतिकया स्नुषया । पादपतनावनतया द्वयोरपि गलितयोर्वलययोः ॥]
अतिकोपापि श्वश्रूर्विरोदिता व्युषितकान्तया खुषया । पादपतनावनतया भयोरपि वलययोः पततोः ॥ ९३ ॥ चरणवन्दनार्थमवनतया प्रोषितपतिकया खुषया, नमनसमये उभयहस्तविधृतयोर्वलययोः निपततोः सतोः अतिकोपनापि श्वश्रूः रोदिता । पदवन्दनसमये दौर्बल्यातिशयात्सहजमेव निपतन्तौ वलयावपि वराक्या न परिज्ञाताविति दृष्ट्वा निष्ठुराया अपि श्वश्र्वाः करुणाभूदित्याशयः । वलययोरिति द्विवचनेन 'दौर्बल्याद्बहवो वलयास्तु कराद्विगसं. गा. २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org