________________
२५२
काव्यमाला।
ददासि, प्रणयोपलब्धिस्तु त्वत्तो दूरापास्तवेत्युपालम्भो वा ध्वन्यते । मधुरस्य स्थाने 'मधु' इत्युक्त्या-व्यामोहनार्थमनृतं माधुर्यातिशयं प्रदर्शयसि । स्पष्टं तदखाभाविकमित्याक्षिप्यते । इयानेवेति विपरीतलक्षणया बाह्योपचारमात्रं न सद्भाव इति सूच्यते । हृदयं तु विपाट्य को दर्शयतीत्यनेन 'बहिस्त एव त्वमतिमधुरोसि । हृदयं तु न त्वं प्रकाशयितुं समर्थः । तथा कृते तु कृत्रिमप्रणयस्य ते हृदयदशा स्पष्टा भवेदिति निभृत उपालम्भो ध्वन्यते । सुभगेत्यामन्त्रणेन-सौभाग्यदर्पितस्त्वम् , अत एव कृत्रिमोपचारैराकर्षणमिच्छसीति सूच्यते। खल्पलाभेन दृप्यत्सु दुर्जनेषु घटमानां सूक्तिं सुमधुरमाह
उअ लहिउण उत्ताणिआणणा होन्ति के वि सविसेसम् । रित्ता णमन्ति सुइरं रहघडिअ व कापुरिसा ॥ ९०॥ [उदकं लब्ध्वा उत्तानितानना भवन्ति केऽपि सविशेषम् ।
रिक्ता नमन्ति सुचिरं रहट्ट (अरघट्ट)घटिका इव कापुरुषाः॥] उदकं लब्ध्वा केचिनितान्तमुत्तानिताननाः सन्ति । ।
रिक्ता नमन्ति सुचिरं रहघटिका इवेह कापुरुषाः॥९०॥ रहट्टो घटीयन्त्रं तत्संबन्धिनः क्षुदा घटा इव तुच्छपुरुषाः सन्ति । उदकं लब्ध्वा यथा घटिका ऊर्ध्वमुखा भवन्ति तथा दुर्जना अपि खल्पलाभ एव दर्पण मस्तकमुन्नमयन्ति, रिक्ततायां च नम्रा भवन्ति । गङ्गाधरेण प्राचीनपद्यमिहोपन्यस्तम्-"जीवनग्रहणे नम्रा गृहीत्वा पुनरुनताः। किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥" इति । 'काप्यस्थिरस्नेहं पतिमुपालब्धुमन्यापदेशेनाह' इति तट्टीकास्थमवतरणम् ।
कलानिधिकलाकलापेन धवलितपर्यन्ते दिग्दिगन्ते प्रियतमसमागमवञ्चिता कृष्णाभिसारिका सखीं सखेदमाह
भग्गपिअसंगमं केत्तिअंव जोलाजलं णहसरम्मि । चन्दअरपणालणिज्झरणिवहपडन्तं ण णिहाइ ॥ ९१ ॥
[भग्नप्रियसंगम कियदिव ज्योत्स्नाजलं नभःसरसि । ___ चन्द्रकरप्रणालनिर्झरनिवहपतन्न निस्तिष्ठति ॥] ज्योत्स्नाजलं नु कियदिव भग्नप्रियसंगम नभःसरसि ।
तिष्ठति न चन्द्रकिरणप्रणालनिझरनिवहनिपतत् ॥ ९१॥ भन्नो मादृशीनां प्रियसंगमो येन, ईदृशं ज्योत्स्नारूपं जलं गगनरूपे सरसि किय. दिव किंपरिमाणमस्ति ? अपरिमेयं भृतमस्तीत्याशयः। यतश्चन्द्रकिरणा एव प्रणालनिझरनिवहास्तेभ्यो निपतत् न तिष्ठति न समाप्यते । यदि ज्योत्स्नाजलं समाप्तं स्यात्तर्हि प्रियतममभिसरेयमित्याशयः । जले वर्षति यातायातनिरोधेन यथा प्रियसंगमो विहर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org