________________
५ शतकम् ] संस्कृतगाथासप्तशती।
२५५ भयम् , पथिक प्रतिष्ठस्वेत्यादि प्रस्तावदेशकालादिभेदात्पुनरनेकविधो व्यङ्ग्योर्थः सहृदयैखयमूहनीयः' इति गङ्गाधरः । मानिन्या मानापनोदनाय नायकं त्वरयन्ती दूती तस्य सहचरमाह
गोत्तक्खलणं सोऊण पिअअमे अज्ज तीअ खणदिअहे । वज्झमहिसस्स माल व मण्डणं उअह पडिहाइ ॥ ९६ ॥ [गोत्रस्खलनं श्रुत्वा प्रियतमे अद्य तस्याः क्षणदिवसे ।
वध्यमहिषस्य मालेव मण्डनं पश्यत प्रतिभाति ॥] प्रेयसि गोत्रस्खलनं श्रुत्वा क्षणवासरेद्य बत तस्याः।
वध्यमहिषस्य मालेव मण्डनं पश्यताभाति ॥९६॥ अद्य क्षणवासरे उत्सवदिवसे । प्रेयसि प्रियतमे प्रियतमस्य मुखादिति यावत् । गोत्रस्खलनं श्रुत्वा तस्या मण्डनं देव्यै उपहारत्वेन कल्पितस्य महिषस्य मालेव प्रतीयते इति पश्यत । बलिदानाय नियमितस्य महिषस्य कृतमपि मण्डनम् आसन्नमरणतया यथा न शोभते तथा तस्या अपीत्यर्थः । प्रेयःपदेन-तस्यास्त्वमेतावत्प्रियोसि यत्तव मुखादन्यमहिलाया नामापि श्रुत्वा द्वेषवशात्सा मरणं व्यवस्यतीति सूच्यते । एवं चअभिमानिनी सा यावन्न म्रियते तावदेव त्वरितमनुनयेति प्रियतमं प्रत्यभिव्यज्यते । अनुभावेषु नायिकानिष्ठः सोयं सपत्नी प्रति द्वेष इति सरस्वतीकण्ठाभरणम् । काचिनिजप्रियतमानयनाय सखी त्वरयितुमात्मनो विषमां विरहवेदनामाह
महमहइ मलअवाओ अत्ता वारेइ मं घराणेन्तीम् । अकोल्लपरिमलेण वि जो क्खु मओ सो मओ व्वेअ॥९७॥ [महमहायते मलयवातः श्वश्रूर्वारयति मां गृहानिर्यान्तीम् ।
अङ्कोटपरिमलेनापि यः खलु मृतः स मृत एवं ॥] मदयति मलयमरुन्मां स्थगयति भवनाच्च नियंती श्वश्रूः ।
अङ्कोटपरिमलेनापि यो मृतः स खलु मृत एव ॥९७ ॥ मलयमारुतः अतिसौरभमुद्वमति, (महमहायते) अत एव मामुन्मत्तां करोति । श्वश्रूश्च 'मलयमारुतोद्दीपितमदना मदनाशुगवेदनावशात्सेयं दुरपनेयं दशान्तरं यास्यति' इति विचार्य मां गृहानिर्गच्छन्ती निवारयति । परम् गृहपुष्पितस्य अङ्कोटपादपस्य परिमलेनापि यो मृतः सोपि मृत एव । गृहाद्वहिरनुपसरणेपि अङ्कोटपरिमलोद्दीपितमदना यमसदनातिथिरहं भविष्यामीत्याशयः । 'अङ्कोटो गृहवाटिकासु बाहुल्येन भवतीति प्रसिद्धिः' इति गङ्गाधरः । 'अङ्कोटे तु निकोचकः' इत्यमरः।
इह ते प्रणयप्राप्तिप्रयत्नो विफल इति नायकं सूचयन्ती दूती कयोश्चिद्दम्पत्योः परस्परप्रणयमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org