________________
२५६
काव्यमाला।
मुहपेच्छओ पई से सा वि हु सविसेसदसणुम्मइआ। दोवि कअत्था पुहई अमहिलपुरिसं व मण्णन्ति ॥ ९८॥ [मुखप्रेक्षकः पतिस्तस्याः सापि खलु सविशेषदर्शनोन्मत्ता ।
द्वावपि कृतार्थों पृथिवीममहिलापुरुषामिव मन्येते ॥] मुखवीक्षकः प्रियोऽस्या इयमपि सविशेषदर्शनोन्मत्ता।
मन्येते द्वावपि भुवमयुवतियुवकामिव कृतार्थौ ॥ ९८॥ प्रियतमः, अस्याः ( भवता प्रक्रान्तप्रसङ्गायाः) नायिकाया मुखवीक्षकः, इयमपि विशिष्य प्रियस्य दर्शनमात्रेण उन्मत्ता । एतावन्मात्रेण कृतकृत्यौ द्वावपि पृथिवीम् अमहिलाम् अपुरुषां च मन्येते । पृथिव्यामियमेकैव युवतिर्नान्येति प्रियः, अयं चैक एव युवक इति एषा नायिका मन्यत इत्याशयः। परस्परं निरन्तरदर्शनप्रणयितया द्वावप्यन्यत्र दृष्टिमपि न क्षिपतः किं पुनरन्यदिति द्वयोः प्रेमातिशयो ध्वन्यते । प्रोषितपतिका कापि कस्याश्चित्कुशलप्रश्नस्योत्तरमाह---
खेमं कन्तो खेमं जो सो खुजम्बओ घरदारे । तस्स किल मत्थआओ को वि अणत्थो समुप्पण्णो ॥९९॥
[क्षेमं कुतः क्षेमं योऽसौ कुब्जाम्रको गृहद्वारे । ____तस्य किल मस्तकात्कोऽप्यनर्थः समुत्पन्नः ॥] क्षेमं कुह भोः क्षेमं योऽसौ कुब्जाम्रको गृहद्वारे ।
तस्य किल मौलिदेशात्कश्चिदनर्थः समुत्पन्नः ॥ ९९ ॥ क्षेमं कुह क्वास्ति ? अनर्थः मुकुलो निर्गत इत्यर्थः। रसालान्कुसुमयन्वसन्तकालः प्राप्त इति सूच्यते। कुब्जस्याम्रस्यापि इयं दशा तर्हि परितो मञ्जरितरसालपुञ्जपिञ्जरितदशदिगन्तेस्मिन्वसन्ते विरहिण्या मे क्षेमं दुरापास्तमेवेति ध्वन्यते।
प्रवासार्थमुद्यतं दयितं प्रति नायिकासखी प्रवासनिरासार्थ प्रसङ्गेन कस्यचित्प्रवसतो वृत्तान्तमाह
आउच्छणविच्छाअंजाआइ मुहं णिअच्छमाणेण । पहिएण सोअणिअलाविएण गन्तुं विअ ण इठम् ॥१०० ॥ [आपृच्छनविच्छायं जायाया मुखं निरीक्षमाणेन ।
पथिकेन शोकनिगडितेन गन्तुमेव नेष्टम् ॥] आपृच्छनविच्छायं जायाया मुखमवेक्षमाणेन । निर्गन्तुमेव नेष्टं शोकनिगडितेन पथिकेन ॥ १०० ॥ आपृच्छनेन 'प्रिये ! प्रवासार्थमनुमतिं देहि' इत्यादिप्रश्नेन विच्छायं मन्दशोभम् । आपृच्छनमित्यत्र वुन् । गृहान्निर्गन्तुमेव न वाञ्छितम् । गृहादनिर्गच्छतोपि दयितस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org