________________
६ शतकम् ] संस्कृतगाथासप्तशती।
२५७ पथिकपदनिर्देशेन “स हि निजमनसि पथिगमनस्य दृढविचारं कृत्वा आत्मनः पथिकत्वं निश्चितवानासीत्परं ततोपि स निवृत्तवान्" इति प्रेमातिशयो ध्वन्यते । निर्गन्तुमेवेत्येवकारेण 'गृहानिर्गमनस्यैवेच्छा न भवति किं पुनर्बहुकालार्थ दूरदेशगमनस्येति प्रेमातिशयो द्योत्यते । इष्टमित्यनेन इच्छामात्रमपि न भवति किं पुनर्गन्तुमुद्योगस्य कथेति व्यज्यते । 'दयितायाः' इत्यायनुक्त्वा 'जायायाः' इति पदेन 'सामान्यतो भार्यामात्रमभिमन्यमानोपि पथिकस्तस्या मनःखेदमनभिलषन्प्रवासं परिहरति । भवांस्तु एतां हृदयदयितां व्यपदिशन्नपि विदेशगमनार्थमुद्युङ्क्ते, अहो प्रणयः' इति साकूतमुपालभ्यते। 'प्रवासावसरमधिगम्य कस्यामप्यभियोक्तुर्जारस्य निरासार्थं दूत्याह' इति गङ्गाधरः। शतकसमाप्तिमाह
रसिअजणहिअअदइए कइवच्छलपमुहसुकइणिम्मइए । सत्तसअम्मि समत्तं पञ्चमँ गाहास एअम् ॥ [रसिकजनहृदयदयिते कविवत्सलप्रमुखसुकविनिर्मिते ।
सप्तशतके समाप्तं पञ्चमं गाथाशतकमेतत् ॥] रसिकजनहृदयदयिते कविवत्सलकुशलसुकविसंरचिते ।
सप्तशतके समाप्तं पञ्चमगाथाशतकमेतत् ॥ १०१ ॥ पञ्चमं गाथानां शतकम् ।
षष्ठं शतकम्
भृशमुत्कण्ठितापि जनापवादभयात्प्रियतमं स्फुटमवलोकयितुमप्यपारयन्ती काचिदसती निजवयस्यां सनिर्वेदमाह
सूईवेहे मुसलं विच्छहमाणेण दडलोएण। एकग्गामे वि पिओ समअं अच्छीहिं वि ण दिहो॥१॥ [सूचीवेधे मुसलं निक्षिपता दग्धलोकेन ।
एकनामेऽपि प्रियः समाभ्यामक्षिभ्यामपि न दृष्टः॥] सूचीवेधे मुसलं निक्षिपता दग्धलोकेन ।
प्रिय एकग्रामेपि हि पूरितनयनं न दृष्टोपि ॥१॥ सूचीवेधस्य सूक्ष्मे स्थाने मुसलं निक्षिपता, अल्पमपि दूषणं बहु कुर्वतेत्यर्थः । दग्धेन लोकेन । अस्य लोकस्य कारणेन, हेतौ तृतीया । एकग्रामेपि वर्तमानः प्रियः पूरितनयनमपि यथा स्यात्तथा न दृष्टः, स्पष्टमुन्मीलिताभ्यां नयनाभ्यामातृप्ति न दृष्ट इत्यर्थः । दग्ध इति लोकं प्रत्यसूयासूचनाय । मूले 'समअम्' इत्यस्य समाभ्यां सर्वाभ्यामित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org