________________
२५८.
, काव्यमाला।
पूर्णोन्मीलिताभ्यां न दृष्ट इति तत्तात्पर्यम् । 'समं सदृशि सर्वस्मिन्' इति कोषः । न दृष्टोपीत्यपिना लोकदौरात्म्याद्दर्शनमात्रेणाप्यहं वञ्चिता, कुतः किल समागमस्य सौभाग्यमिति लालसा व्यज्यते । 'सूचीवेध' इति लोकोक्त्यलङ्कारः । अनेन च-मुधैव मां कलङ्कयन् लोकः प्रियसमागमे बाधकः । तद्विरहविकलाया मम तु महदधैर्यमित्युत्कण्ठाविशयो ध्वन्यते।
प्रियतमे प्रोषिते मे प्राणानामपि संशय एवेति सूचयन्ती काचिद्रोदनान्निवारयन्ती निजसखीमाह
अजं पि ताव एकं मा में वारेहि पिअसहि रुअन्तिम् । कल्लिं उण तम्मि गए जइ ण मुआ ता ण रोदिस्सम् ॥२॥
[अद्यापि तावदेकं मा मां वारय प्रियसखि रुदतीम् । ___ कल्ये पुनस्तस्मिन्गते यदि न मृता तदा न रोदिष्यामि ॥] अद्यैव तावदेकं मा मां प्रियसखि निवारये रुदतीम् । .
कल्ये गते तु तस्मिन्न हि रोदिष्यामि यदि न मृता ॥२॥ मूले अपिरवधारणे । अद्यैव, एक दिनं यावत् , रुदतीं मां मा निवारयेः । यदि न मृता तदा न रोदिष्यामीत्यनेन तद्गमने मम मरणमवश्यंभावि, ततश्च रुदत्या मे निवारणस्यावश्यकतैव न भविष्यतीति भावः । 'यदि न मरिष्यामि तदा न रोदिष्यामि' इति 'मृ'धातोभविष्यत्प्रत्ययस्थलेपि 'मृता' इति भूतकालिकप्रयोगेण-'रोदनात्पूर्व मे मरणं भूतकालिकं भविष्यति अर्थात् रोदनं पश्चाद्भविष्यति अहं तु ततः पूर्वमेव म्रियेय' इति व्यज्यते । एवं च-यदि मे जीवितं कामनीयं तर्हि प्रियः प्रवासोद्यमान्निवारणीय इति सखीं प्रत्यभिव्यज्यते। भोजेन तु सरस्वतीकण्ठाभरणे 'जइ ण मरिस्सं ण रोदिस्सम्' 'यदि न मरिष्यामि न रोदिष्यामि' इति पाठः स्वीकृतः ।
चतुरमहिला दाक्षिण्येनैव गोपनीयमपि वृत्तं सूचयन्तीति निजसखी शिक्षयन्ती काचिदाह
एहि त्ति वाहरन्तम्मि पिअअमे उअह ओणअमुहीए । विउणावेडिअजहणस्थलाइ लजाणअं हसिअम् ॥३॥ [एहीति व्याहरति प्रियतमे पश्यतावनतमुख्या।
द्विगुणावेष्टितजघनस्थलया लज्जावनतं हसितम् ॥] एहीति व्याहरति प्रेयसि बत पश्यतावनतमुख्या।
द्विगुणावेष्टितजघनस्थलया लज्जानतं हसितम्॥३॥ द्विगुणम् आह्वानसमये शाटकाञ्चलेन पुनरपि आवेष्टितं जघनस्थलं यया । लज्जया आनतं यथा स्यात्तथा, ईषदित्यर्थः । अन्यसमये यथा हास्यं भवति तदपेक्षयापि, ससं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org