________________
६ शतकम् ] संस्कृतगाथासप्तशती।
२५९ कोचं हास्यमिति यावत् । अवनतमुख्या यद् हसितं तत्पश्यतेति योजना । जघनस्थलवेटनपूर्वकं सलज्जहसितेन ऋतुमत्यहमस्मीति व्यजितमित्याशयः । कामपि कामिनी कामयमानः कश्चित्कटाक्षच्छटावर्णनव्याजेन स्वाभिलाषं प्रकाशयति
मारेसि कं ण मुद्धे इमेण पेरन्तरत्तविसमेण ।। भुलआचावविणिग्गअतिक्खअरद्धच्छिभल्लेण ॥ ४ ॥
[मारयसि कं न मुग्धे अनेन पर्यन्तरक्तविषमेण । - भूलताचापविनिर्गततीक्ष्णतरार्धाक्षिभल्लेन ॥] मारयसि कं न मुग्धे ह्यनेन पर्यन्तरक्तविषमेण ।
भृकुटीचापविनिर्गततीक्ष्णतरार्द्धाक्षिभल्लेन ॥ ४॥ पर्यन्ते कोटौ रक्तं रुधिरं यस्य तादृशेन च विषमेण चेति भल्लपक्षेऽर्थः । कटाक्षविक्षेपे अर्द्धमीलितं यदक्षि तदेव भल्लः ( अर्द्धचन्द्राकारो बाणः ) तेन । 'मुग्धे ! कं वा न मारयसि' इत्यनेन-अतिसंयमशीलोपि प्रवीणोपि च ते कटाक्षेण विक्षुब्धहृदयो भवति, ततोपि त्वं मुग्धा परिगण्यस इति साकूतमुपालभ्यते । विध्यसीत्याद्यनुक्त्वा मारयसीत्यनेन वेदनातिशयो ध्वन्यते । अनेनेत्यनेन अङ्गुल्या निर्दिश्य-प्रत्यक्षं त्वं निहंसि, तस्य दृष्टान्तोहम् । तथापि त्वं मुग्धेत्याकूतम् । साधारणबाणः समः (सरलः) भवति, अक्षिबाणस्तु बाणत्वेपि विषम इति विषमपदसूचितो विशेषः । कटाक्षभल्लेन मारितं मां संगमसंजीवनौषधेन संजीवयेति तां प्रत्यात्मनोऽभिलाषोभिव्यज्यते । गङ्गाधरपरिगृहीतः 'रत्तन्ततिक्ख' इति पाठस्तु तीक्ष्णार्थपौनरुक्त्याद्विचारणीय एवेत्यलम् । नायिकायाः प्रणयातिशयं प्रकाश्य उपपतिमुत्साहयन्ती दूती तदभियोगार्थमाह
तुह दंसणे सअह्ना सदं सोऊण णिग्गदा जाई। तइ वोलीणे ताई पाइँ वोढविआ जाआ ॥५॥ [तव दर्शने सतृष्णा शब्दं श्रुत्वा निर्गता यानि ।
त्वयि व्यतिक्रान्ते तानि पदानि वोढव्या जाता ॥] तव दर्शने सतृष्णा शब्दं श्रुत्वा विनिर्गता यानि ।
तानि पदानि हि जाता वोढव्या त्वयि विनिर्याते ॥५॥ तव दर्शनार्थ साभिलाषा सा तव कण्ठरवं श्रुत्वा यानि पदानि गृहाद्विनिर्गता, त्वयि दर्शनपथातीते सति तानि पदानि अन्यजनद्वारा वोढव्या उत्थापनीया जाता । त्वद्विरहानितान्तदुर्बला सा त्वद्दर्शनोत्साहेन निजक्लेशमजानती कानिचित्पदानि बहिरायाता, परं त्वामदृष्ट्वा भन्माशा सा परावर्तनसमये अन्यजनैर्वहनीयाऽभवदित्यर्थः । तानि पदानीसत्यन्तसंयोगे द्वितीया । अवलम्बनीयेत्याद्यनुक्त्वा वोढव्येत्यनेन गतजीविता यथान्यैजनैर्वहनीया भवति तथा जाता, ततश्च त्वं तस्या जीवितस्थानीय इति ध्वन्यते । तथा च-एतादृशीमनुरागिणीमेतां किमित्युपेक्षसे, अभिसर सत्वरमिति चरमं व्यङ्ग्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org