SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २६० काव्यमाला। किमेवं शरीरतः क्षीणासीति रहस्यभुक्तया मातुलान्या पृष्टा काचिदाह ईसामच्छररहिएहिँ णिबिआरेहिँ मामि अच्छीहिं । एहिं जणो जणम्मिव णिरिच्छए कहँ ण छिज्जामो ॥६॥ [ईर्ष्यामत्सररहिताभ्यां निर्विकाराभ्यां मातुलान्यक्षिभ्याम् । ___ इदानीं जनो जनमिव निरीक्षते कथं न क्षीयामहे ॥] ईर्ष्यामत्सररहितं मातुलि दृग्भ्यां विनिर्विकाराभ्याम् । जनमिव जनोधुना नः पश्यति हीयामहे न कथम् ॥ ६॥ __ जनः (प्रियतमः) नः अस्मान् जनमिव निःसंबन्धं साधारणं जनमिव ईर्ष्यामत्सररहितं यथा स्यात्तथा भ्रूभङ्गादिविकाररहिताभ्यां दृग्भ्यां पश्यति, ततः कथं न क्षीयामहे । प्रणयसंबन्धे सत्येव ईर्ष्यामत्सरादिकं भवति, ततश्च ईर्ष्यामत्सरशून्यया दृशा मां निर्विकारं पश्यतः प्रियतमस्य प्रणयभङ्गः स्पष्टं परिज्ञातः। ततः कथं क्षीणा न भवामीत्याशयः । प्रियतमाय जन इति निर्देशस्तु मातुलानीसविधे कोलीन्यलजां प्रकटयितुम् । अथवा-छन्दानुगामिनीमपि मां स यदि साधारणदृष्ट्या पश्यति तर्हि विवशतया ममापि स निःसंबन्ध इवेसभिमानमाविष्कर्तुं वा । यत्किञ्चिदपि दुहितुः सौभाग्यसूचकमालोक्य सुभृशमभिनन्दति मातेति शिक्षयन्तीव काचित्सहृदयं कंचिदाह वाउद्धअसिचअविहाविओरुदिह्रण दन्तमग्गेण । वहुमाआ तोसिञ्जइ णिहाणकलसस्स व मुहेण ॥७॥ [वातोद्धतसिचयविभावितोरदृष्टेन दन्तमार्गेण । वधूमाता तोष्यते निधानकलशस्येव मुखेन ॥] दशनपथेन हि वातोद्धतसिचयालक्षितोरुदृष्टेन । तुष्यति जननी वध्वा निधानकलशाननेनेव ॥ ७॥ वातोद्धते सिचये ( वस्त्रे) आलक्षितो य ऊरुस्तस्मिन्दृष्टेन दशनपथेन दन्तक्षतेन । भूमि खनन् जनो ह्यकस्मान्निधानकलशस्य मुखं दृष्ट्वा यथा हृष्यति तथा तुष्यतीत्यर्थः । दुहितुर्वधूत्वव्यपदेशेन तस्याः पतिसदने गत्वा तन्निरीक्षणं सूच्यते । ऊरुदेशे दन्तनखघातादयः कामशास्त्रानुमताः, ततश्च जामाता कामशास्त्रनिपुणो दुहितरि सुभृशमनुरक्तश्चेति ज्ञात्वा तन्मातुः परितोष इत्याशयः। आत्मनः प्रणयातिशयं सूचयन्ती काचित्प्रियतमं प्रति सार्वदिकस्नेहानुवृत्त्यर्थ प्रार्थयते हिअअम्मि वससि ण करेसि मण्णुअं तह वि णेहभरिएहि । सङ्किजसि जुअइसुहावगलिअधीरेहिँ अम्हेहिं ॥ ८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy